________________
४०
आचार्यश्री हेमचन्द्रविरचिता [अ०१, ०२, सू० ९-१३.
हि अयमर्थः स्यात् सपक्षे सश्वमेव यस्य स हेतुरिति प्रयत्नानन्तरीयकत्वं न हेतुः स्यात् । निश्चितवचनेन सन्दिग्धान्योऽनैकान्तिको निरस्तः यथा सर्वज्ञेः कश्विद्वत्कृत्वात्, वक्तृत्वं हि सपक्षे सर्वज्ञे सन्दिग्धम् । विपक्षे त्वत्वमेव निश्चितमिति तृतीयं रूपम् । तत्रासवग्रहणेन विरुद्वस्य निरासः । विरुद्धो हि विपक्षेऽस्ति । एवकारेण साधारणस्य विपक5 देशवृत्तेर्निरासः, प्रयत्नानन्तरीयकत्वे हि साध्येऽनित्यत्वं विपक्षैकदेशे विद्युदादावस्ति, आकाशादौ नास्ति । ततो नियमेनास्य निरासोऽसच्चशब्दात् । पूर्वस्मिन्नवधारणे हि अयमर्थः स्यात् विपक्ष एव यो नास्ति स हेतुः तथा च प्रयत्नानन्तरीयकत्वं सपक्षेऽपि नास्ति ततो न हेतुः स्यात्ततः पूर्व न कृतम् । निश्चितग्रहणेन सन्दिग्धविपक्षव्यावृत्तिको ऽनैकान्तिको निरस्तः । तदेवं वैरूप्यमेव हेतोरसिद्धादिदोषपरिहारक्षममिति तदेवाभ्युपगन्तुं 10 युक्तमिति किमेकलक्षणकत्वेनेति ? |
६ ३३. तदयुक्तम्, अविनाभावनियमनिश्चयादेव दोषत्रयपरिहारोपपत्तेः । अविनाभावो वन्यथानुपपन्नत्वम् । तचासिद्धस्य विरुद्धस्य व्यभिचारिणो वा न सम्भवति । त्रैरूपये तु सत्यप्यविनाभावाभावे हेतोरगमकत्वदर्शनात्, यथा स श्यामो मैत्रतनयत्वात् इतर मैत्रपुत्रवदित्यत्र । अथ विवचानियमवती व्यावृत्तिस्तत्र न दृश्यते ततो न गम15 कत्वम् तर्हि तस्या एवाविना भावरूपत्वादितररूपसद्भावेऽपि तदभावे हेतोः स्वसाध्यसिद्धिं प्रति गमकत्वानिष्ट सेव प्रधानं लक्षणमस्तु । तत्सद्भावेऽपररूपद्वयनिरपेक्षतया Treatures, यथा सन्त्यद्वैतवादिनोऽपि प्रमाणानि इष्टानिष्टसार्धेन दूषणान्यथानुपपपतेः । न चात्र पक्षधर्मत्वं सपक्षे सत्यं चास्ति, केवलमविनाभावमात्रेण गमकत्वोपपतिः । ननु पचधर्मताऽभावे श्वेतः प्रासादः काकस्य कार्य्यादित्यादयोऽपि हेतवः 20 प्रसज्येरन् नैवम्, अविनाभावबलेनैवापक्षधर्माणामपि गमकत्वाभ्युपगमात् । न चेह सोऽस्ति । ततोऽविनाभाव एव हेतोः प्रधानं लक्षणमभ्युपगन्तव्यम् सति तस्मिमसत्यपि त्रैलक्षण्ये हेतोर्गमकत्वदर्शनात् । न तु त्रैरूप्यं हेतुलक्षणम् अव्यापकत्वात् । तथा च सर्व क्षणिकं सत्वादित्यत्र मूर्द्धाभिषिक्ते साधने सौगतैः सपक्षेऽसतोऽपि हेतोः सध्वस्य गमकत्वमिष्यत एव । तदुक्तम्
,
66
25
"अन्यथानुपपन्नत्वं यत्र तत्र प्रयेण किम् ? | नान्यथानुपपन्नत्वं यत्र तत्र प्रयेष किम् १ ।। " इति ।
१ सप दर्शनमन्वयः । २ मीमांसकं प्र जैनो । ३ सर्वस्य सर्वस्य सपक्षत्वात् । ४ अनित्यो घटः कृतकत्वात् शब्दवत् । कृतकत्वं शब्देऽस्ति नाकाशादौ ५ यथा प्रथानन्तरीयकः शब्दो अनित्यत्वात् घटवत् । ६ क्षे त्वस्ति एव । ७ यथा असर्वज्ञोऽयं वक्तृत्वात् । = अनैकान्तिकस्य । ९ पूर्वस्मिनुमाने । १० पक्षधर्म पक्ष सवलक्षणं रूपद्वयं । ११ विपक्षा नियमावत्या व्यावृत्तेरभावे । १२ विपक्षानियमवत्या व्या से: । १३ शून्याद्वैतवादिनः । १४ तन्मवे प्रमाणलक्षणः पक्षोऽपि नास्ति कुतः पक्षश्रता । १५०पपते:मु-पा० । १६ स श्यामो मैत्रातनयत्वादित्यादौ ।