________________
॥ अथ द्वितीयमाह्निकम् ॥ ६१. इहोद्दिष्ट प्रत्यक्षपरोक्षलक्षणे प्रमाणद्वये लक्षितं प्रत्यक्षम् । इदानीं परोक्षलक्षणमाह
अविशदः परोक्षम् ॥१॥ ६२. सामान्यलक्षणानुवादेन विशेषलक्षणविधानात् 'सम्यगर्थनिर्णयः' इत्यनुवर्तते । तेनाविशदः सम्यगर्थनिर्णयः परोक्षप्रमाणमिति ॥१॥ ६३. विभागमाह
स्मृतिप्रत्यभिज्ञानोहानुमानागमास्तद्विधयः ॥ २॥
४. 'तद्' इति परोक्षस्य परामर्शस्तेन परोक्षस्यैते प्रकारा न तु स्वतन्त्राणि प्रमागान्तराणि प्रक्रान्तप्रमाणसङ्ख्याविघातप्रसङ्गात् ।
५. ननु स्वतन्त्राण्येव स्मृत्यादीनि प्रमाणानि कि नोच्यन्ते ?, किमनेन द्रविड- 10 मण्डकभक्षणन्यायेन ? । मैवं बोचा, परोक्षलक्षणसङ्गृहीतानि परोक्षप्रमाणान्न विभेदवनिः यथैव हि प्रत्यक्षलक्षणसगृहीतानीन्द्रियज्ञान-मानस स्वसंवेदन-योगिज्ञानानि सौगतानां न प्रत्यक्षादतिरिच्यन्ते, तथैव हि परोक्षलक्षणाक्षिप्तानि स्मृत्यादीनि न मूलप्रमाणसङ्ख्यापरिपन्थीनीति । स्मृत्यादीनां पश्चाना द्वन्द्वः ॥२॥ ६६. तत्र स्मृति लक्षपति
15. वासनोद्बोधहेतुका तदित्याकारा स्मृतिः ॥३॥ ६७. 'वासना' संस्कारस्तस्याः 'उद्बोधः' प्रबोधस्तद्धेतुका तन्निबन्धना,
"कालमसंखं संखं च धारणा होइ नायव्या" विशेषा० गा० ३३३ ] इति वचनाचिरकालस्थायिन्यपि वासनाऽनुहुद्धा न स्मृतिहेतुः, आवरणक्षयोपशमसदृशदर्शनादिसामग्रीलब्धप्रबोधों तु स्मृति जनयतीति 'वासनोबोधहेतुका' इत्युक्तम् । 20 अस्या उल्लेखमाह 'तदित्याकारा' सामान्योक्तौ नपुंसकनिर्देशस्तेन स घटः, सा पटी, तत् कुण्डलैंमित्युल्लेखवंती मतिः स्मृतिः ।
६८. सा च प्रमाणम् अविसंवादित्वात् स्वयं निहितप्रत्युन्मार्गणादिव्यवहाराणां दर्शनात् । नन्वनुभूयमानस्य विषयस्याभावाभिरालम्बना स्मृतिः कथं प्रमाणम् । नैवम् , अनुभूतेनार्थेन सालम्बनत्वोपपत्तेः, अन्यथा प्रत्यक्षस्याप्यनुभूतार्थविषयत्वादप्रामाण्यं 25 प्रसज्येत । स्वविषयावभासनं स्मृतेरप्यविशिष्टम् । विनष्टो विषयः कथं स्मृतेर्जनकः ?, तथा
१ अत्र प्रथमं द्वितीय व सूत्रद्वयं ता.. प्रतौ भेदकहिटुं बिना सहैव लिखितं दृश्यते-सम्पा। २-०मिजोहा.-सं-मू० । ३ धारणा ४ स्मृतिजननाभिमुस्यम् । ५-०धा अनुस्मृ-सु-पा०। ६ अभ्यासदशापलायां गुणनादौ सहित्याकारामाचात् प्राधिकमिदम् । ७ कुपडमि०-३० । ८-०वत्ती स्म-डे । ९ अविसंवादित्वमस्या [अ] सिद्धमिति चेदित्याह । १० यधनुभूतेनार्थेन सालम्बनत्वेऽपि स्मृवेरप्रामाण्यमातिष्ठसे तदा प्रत्यक्षस्यापि किं नाप्रामाण्यं भवेदिति एकोद्देशेन तस्यापि निरालम्बनत्वात् । ११ अनुभूतविषय ।