________________
प्रमातुर्लक्षणम् ।]
प्रमाणमीमांसा। ततोऽपि प्रत्यभिज्ञा प्रमाणमूहः फलम् । सोऽ पहः गरनुमान गरमिति प्रमाणफलविभाग इति ॥ ३९ ॥ ६१४६. फलान्तरमाह
हानादिबुद्धयो वा ॥४॥ १४७, हानोपादानोपेक्षाबुद्धयो वा प्रमाणस्य फलम् । फलबहुत्वप्रतिपादनं सर्वेषां 5 फलत्वेन न विरोधो वैवक्षिकत्वात् फलस्येति प्रदिपादनार्थम् ॥ ४० ॥ ६१४८. एकान्तभिन्नाभिन्नफलवादिमतपरीक्षार्थमाह
प्रमाणाद्भिन्नाभिन्नम् ॥४१॥ १४९, करणरूपत्वात् क्रियारूपत्वाच प्रमाणफलयोर्भेदः । अभेदे प्रमाणफलभेदव्यवहासनुपपत्तेः प्रमाणमेव वा फलमेव वा भवेत् । अप्रमाणाध्याश्या प्रमाणव्यवहारः, 10 अफलान्याश्या च फलव्यवहारो भविष्यतीति चेत् नैवम ; एवं सति प्रमाणान्तराज्यावृस्याऽप्रमाणव्यवहारः, फलान्तराज्यावृत्याऽफलव्यवहारोऽप्यस्तु, विजातीयादिव सजीतीयादपि व्यावृत्तत्वाद्वस्तुनः।
६१५०. तथा, तस्यैवात्मनः प्रमाणाकारेण परिणतिस्तस्यैव फलरूपतया परिणाम इत्येकममात्रपेक्षया प्रमाणफलयोरभेदः । भेदे वात्मान्तरवचदनुपपत्तिः । अथ यत्रैवात्मनि 15 प्रमाणं समवेतं फलमपि तत्रैव समवेतमिति समवायलक्षणया प्रत्यासच्या प्रमाणफलव्यवस्थितिरिति नात्मान्तरे तत्प्रसङ्ग इति चेत् । न समवायस्य नित्यत्वाध्यापकत्वान्नियतात्मवत्सर्वात्मस्वप्यविशेषान्न ततो नियतप्रमातृसम्बन्धप्रतिनियमः तत् सिद्धमेतत् प्रमाणात्फलं कथचिदिन्नमभिन्नं चेति ॥ ४१॥ ६१५१ प्रमातारं लक्षयति
स्वपराभासी परिणाम्यात्मा प्रमाता ॥४२॥ ६१५२. स्वम् आत्मानं परं चार्थमाभांसयितुं शीलं यस्य स 'स्वपराभासी स्वोन्मुखतयाऽर्थोन्मुखतया चावभासनात् घटमहं जानामीति कर्मकर्तक्रियाणां प्रतीतेः, अन्यतरप्रतीत्यपलापे प्रमाणाभावात् । न च परप्रकाशकत्वस्य स्वप्रकाशकत्वेन विरोधः प्रदीपयत् । नहि प्रदीपः स्वप्रकाशे परमपेक्षते । अनेनैकान्सस्वाभासिपरामासिवादिमतनिरासः। 25 स्वपरामास्येव 'आत्मा प्रमाता' ।
20
१- पेक्षया यु०-सा०।२ अर्थप्रकाशादीनाम् । ३-०क्षितत्वात-ता। अन्य प्रमाणात् 14- लत्यव्य. -है।६ प्रमाणान्तरान् । ७ यधैकात्मगतस्य प्रमाणस्य सम्बन्धि द्वितीयात्मगतं कर न भवत्ति तथैकात्मगतयोरपि मा भदस्यन्तमेदस्योभवपक्षयोरप्यविशिष्टत्वात। -तारं कथयति- एतत्सनानन्तरं ता-मू. प्रती एवं लिखितं वर्तते-"इत्याचार्यश्रीहेमचन्द्रविरचितायां प्रमाणमीमांसायां प्रथमस्याध्यायस्य प्रथममालिकम् । सं-भू० प्रती तु -ध्यायस्यायाचिकम् । १० बौद्धस्य ।