SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ प्रस्त १४२ * प्राकृत व्याकरणम् * चतुर्थ पादः ३५० सू० रेफस्य लोपे, ३६० सू० पकार-द्वित्त्वे, पूर्ववदेव कन्तप्पो इति भवति । बामोवरः । दामोदर +सि । प्रस्तुतसूत्रेण उभयत्रापि दकारस्य सकारे, पूर्ववदेव लामोसरो इति भवति । मधुरम् । मधुर+ सि । प्रस्तुतसूत्रेण धकारस्य थकारे, ५१४ सु० सेमकारे, २३ सू० मकारानुस्वारे मथुर इति भवति । बान्धवः । बाधव+सि । प्रस्तुतसूत्रेण बकारस्य प्रकारे, धकारस्य च थकारे, ८४ सूक संयोगे परे हस्वे, पूर्ववदेव पन्थवो इति भवति । धूली । धुली+सि । प्रस्तुतसूत्रण धकारस्थ थकारे, १।१।३७। सू० सेरिकारलोपे, ११ सू० सकारलोपे धूली इति भवति । धूलिः इतिच्छायायान्तु धूलि+शि, इत्यत्र धकारस्य थकारे, ५०० स० इकारदीधे, सेलोपे धूलो इति भवति । बालकः । बालक+सि । इत्यत्र प्रस्तुतसूत्रेण बकारस्थ पकारे, पूर्ववदेव पालको इति साध्यम् । रभसः 1 रसभ-+सि । प्रस्तुतसूत्रेण भकारस्य फकारे पूर्ववदेव रफसो इति भवति । रम्भा । रम्भा+सि । प्रस्तुतसूत्रेण भकारस्य फकारे, सेर्लोपे रम्फा इति भवति । भगवती। प्रस्तुतसूत्रेण भकारस्य फकारे, गकारस्य च ककारे, सेलोपे फकवतो इति भवति । नियोजितम् । इत्यत्र प्रस्तुतसूत्रेण जकारस्य पारे, २३ सू० मकारानुस्वार नियोचित इति भवति । कचिल्लाक्षणिकस्याऽपि । बाहुल्येन कस्मिश्चित स्थले लाक्षणिकस्य-सूत्रनिष्पन्नस्यापि डकारस्य टकारः, ढकारस्य च ठकारो भवति । यथा-प्रतिमा। इत्यत्र ३५० सू० रेफलोपे, २०६ सू० तकारस्य डकारे, 'णकस्य डकारस्य टकारे पटिमा इति भवति । एवमेव दंछा। ४१० स० दंष्टाशब्दस्य दाढा इत्यादेशे, प्रस्तुतसूत्रेण लाक्षणिकस्य दकारस्य तकारे, लकारस्य च ठकारे साठा इति भवति । ९६७--- प्रणमत प्रणयप्रकुपित-गौरी-चरणान-लग्नप्रतिबिम्बम् । यशसु नखवरणेषु एकावश-सनुपरं हनम् ॥१॥ भावार्थ:-महादेवप्रणामव्याजेन कश्चित्कवि: गौरीचरणयोः नखानां समुज्ज्वलता प्रतिपादयति । चन्द्रम्-महादेवं यूयं प्रणमत-नमस्कारं कुरुत । किविशिष्टं सनम् ? प्रणयेन-प्रेम्णा प्रकुपिता-प्रकर्षण क्रुद्धा प्रणयप्रकुपिता, प्रणयप्रकुपिता चासौ गौरी-पार्वती तस्याः चरणयोरग्ने लग्नम्-सम्बद्धम, चरणलग्नं प्रतिबिम्ब-प्रत्याकृतिर्यस्य तथाभूतम् । पुनः फिविशिष्ट रुखम् ? नखान्येव दर्पणानि नखदर्पणानि, तेषु दंशसुदेशसंख्यकेषु, एकादश च इमाः तनवः शरीराणीति एकादशतनयः, ताः धरतीति एकादश-तनुधरः तथाभूतम् । गौर्याः चरणानयोः ये दशनखाः सन्ति, तेषामत्युज्ज्वललया महादेवस्य प्रतिबिम्ब तेषु प्रतिभाति । अनेन गौराः चरणनखाः दर्पणतुल्यकान्तिमन्तः सन्ति, इति संसुच्यते । प्रणमत । प्रपूर्वकः णम-(नम्)-धातुःप्रणामे । अत्र लोट-लकारः, किन्तु १११८ सूत्रेण लकारव्यत्यये जाते सति लोट् लकारस्थाने लट्लकारो जातः,तत:प्र+नम्+थ इति जाते ३५० सू० रेफलोपे, २२८ सू० कारस्य कारप्राप्ती, ९९९ सूत्रेण पैशाची-बत्त्वात् १९५ स० तनिषेधे,९१० सू० प्रकारस्यागमे, ६३२ सू० थस्य हच्-ह इत्यादेशे, ९३९ २० हकारस्य धकारे,९९६ स० धकारस्य षकारे पनमय इति भवति । प्रणयप्रकुपित-गौरी-चरणान-लग्न-प्रतिबिम्बम् । प्रणय इत्यत्र ३५० सू० रेफस्य लोपे,९७७ साणकारस्य नकारे पिनय,प्रकृपित इत्यत्र ३५० स० रेफस्य लोपे,९०१ सपकारद्वित्त्वे पपित), गौरी इत्यत्र १५९ सू० औकारस्य लोकारे,९९७ सू० रेफस्य स्थाने लकारे (गोली),चरणान इत्यत्र १९७ सू० रेफस्य लकारे, ९७७ सू० णकारस्य नकारे,८४ सू० संयोगे परे ह्रस्वे,३५० सू० रेफलोपे, ३६० सू० गकारस्य द्वित्त्वे (चलमग्ग) लग्न इत्यत्र ३४९ सू० नकारलोपे,गकारस्य द्वित्त्वे (लग्ग) प्रतिबिम्बम इत्यत्र ३५० सू० रेफस्य लोपे, २३ सू० मकारानुस्वारे पतिबिम् इति भवति । दशसु इत्यत्र ९७८ सू० इकारस्य तकारे, ९८० सू० शकारस्य सकारे तहसु इति भवति । नखदर्पणेषु । इत्यत्र २२९ सू० नकारस्य ..
SR No.090365
Book TitlePrakrit Vyakaranam Part 2
Original Sutra AuthorHemchandracharya
AuthorHemchandrasuri Acharya
PublisherAtmaram Jain Model School
Publication Year
Total Pages461
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Grammar
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy