________________
* प्राकृत व्याकरणम् *
चतुर्थपादः . स० मकारानुस्वारे पुढम इति भवति । एव==य्येव, प्रक्रिया ९५१ सूत्रे ज्ञेया । आसप्तम् । प्राज्ञप्त+ : सि । ३१३ सू० शस्य प्रकारे,३४८ सपकारलोपे, ३६० सू० तकारद्वित्त्वे पूर्ववदेव आरणसं इति भवति । ननुणं, पूर्ववदेव साध्यम् । भवान-भवं, प्रक्रिया ९३६.सूत्रे ज्ञेया । मे। अस्मद् + ङस मे, प्रक्रिया ६०२ सत्र शेया। अग्रतः। अध्ययपदमिदम् । ३५० सू० रेफलोपे, ३६० सू० गकारतिरके, ९३१ सू० सकारस्य दकारे, ३७ सू० विसर्गस्य डो (भो) इत्यादेशे, डिति परेऽन्त्यस्वरादेलोपे प्रग्गडो इति भवति । पतति । चल चलने । चल् +तिन् । ९१० सू० प्रकारागमे, ६२८ सू० तिवः स्थाने इचादेशे, ९४५ सू. इच: दि. इत्यादेशे चलदि इति भवति । पार्षे वाक्यालङ्कारेऽपि । पार्षशौरसेन्यो रणं इत्यध्ययपदं वाक्यालंकारे वाक्यसौन्दर्येऽपि प्रयुज्यते । यथा-नमः-नमो, प्रक्रिया ५३५ सूत्रे ज्ञेया । अस्तु । क्रियापदमिदम् । ३१६ सू० स्तस्य धकारे, ३६० सू० थकार-द्विश्वे, ३६१ सू० पूर्वथकारस्थ सकारे प्रत्यु इति भवति । नमो प्रत्थु इत्यत्र प्रोकारात् परो योऽकारस्तस्य संस्कृतनियमेन पूर्वरूपे जाते नमोऽयु इति भवति । नमोऽयु , इत्यत्र णं इत्यव्ययपदं वाक्यसौन्दर्यार्थ बोध्यम् । एवमेव जया रणं, तथा रणं इत्यत्रापि सं इत्यत्ययपदं वाक्यालंकारार्थकं ज्ञेयम् । यदा इत्यत्र २४५ सू. यकारस्य जकारे, १७७ सू० दकारलोपे, १५० सू० यकारश्रुतो जया एवं तबा-तमा इति भवति !
९५५-अम्महे इति निपातः ९५५ सू० हथिं प्रयुज्यते । एतया एपाए, प्रक्रिया ५२१ सूत्रे जेया। सर्मिलया। सूमिला+टा । ३५० सू० रेफलोपे, ३६० सू० मकारस्प द्वित्वे, ५४ सू० संयोगे परे ह्रस्वे, ५१८ सू० टाप्रत्ययस्य स्थाने एकारे सुम्मिलाए इति भवति । सुपरिघटितः । सुष्ठुरूपेण परिधटितः परिगृहीतः । सुपरिघट् + क्त (त)+सि । १११८ सू० भाषाव्यत्यये कृते,९५९ सू० रेफस्य सकारे, ७८३ स० घट्धातोः गढ़ इत्यादेशे, ६४५ सू० प्रकारस्य इकारे, ९३१ सू० तकारस्य दकारे, ४९१ स० सेडोंः, डिति परेऽन्त्यस्वरादेलोपे सुपलिगडिवो इति भवति । भवान्-भवं, प्रक्रिया ९३६ सूत्रे ज्ञेया। ..: ५६ होही इत्ति निपात-पदं ९५६ सू० विदूषकस्य-राजप्रमोदकस्य हर्षे द्योत्ये प्रयुज्यते । भो । प्रन्ययपदमिदम् । संस्कृततुल्यमेव शौरसेन्य प्रयुज्यते । संपाः । सम्पन्न+जस्। ४९३ १० जसो लूकि, ५०१. सू०. पूर्वस्वरस्थ को सम्पन्ना इति भवति । सनोरथाः । मनोरथ+जसः । २२५ स नकारस्य कारे, ९३८ सू० थकारस्य धकारे, पूर्ववदेव मणोरक्षा इंति साध्यम्। त्रिपक्यस्यस्य । प्रियन चासो वयस्यः, सस्य । प्रियवयस्य+इस् । ३५० सू० रेफलोपे, ३४९ सू० संयुक्त यकारलोपे. ३६० स० सकारद्वित्वे, ४९९ सू० इसः स्थाने स्स इत्यादेशे पिय-वसस्सस्स इति भवति ।
१५७-शौरसेन्यामिह । शौरसेनी-भाषाप्रकरणे यानि कार्याप्युक्तानि तदतिरिक्तानि कार्याणि प्राकृत-भाषातुल्यानि बोज्यानीति भावः। प्रस्तुताष्टमाध्याये चतुर्थ-सूत्रादारभ्य ९३० सूत्रपर्यन्त यानि सूत्राणि पठित्तानि, तेषु सुत्रेषु यानि चोदाहरणानि प्रदत्तानि,तेषूबाहरणेषु मध्ये यान्युदाहरणानि शौरसेनीप्रकरणे महीलानि सन्ति तानि तदवस्थानीत्युच्यन्ते,यथा ९४९ सुत्रे पठितानि जान पविसामि, ९५१ सूत्रोक्तानि मम, सो, एसो इत्यादीनि रूपाणि किश्चिदपि परिवर्तनरहितानि प्राकृतभाषा-नियम-सिद्धानि शौरसेनीभाषायां गृहीतानि सन्त्यतएवैतानि पदानि तववस्थानोति ज्ञेयानि। यानि च रूपाणि प्राधान्येन शौरसेनीभाषानियमः निष्पादितानि सन्ति,तानि एवंविधानि बोध्यानि । तथा-९३१ सूत्रे एवाहि, ९५१ सूत्रे प्येष, ९५२सूत्रे हजे, इत्यादयः प्रयोगाः प्राधान्येन शौरसेनी-भाषानियमः साधिताः सन्ति, अतएवैत एवंविधा अवगन्तच्याः। कानि रूपाणि तबस्थानि कानि च एवंविधानि ? इति विभागः पाठकः स्वयमेव प्रतिसूत्रमभ्यूप-विचार्य दर्शनीय व्याख्यातथ्यः । यथा---अन्सर्वे विः अन्तर्-वेदि+सि । ११