________________
परम्परा बाणद्विपभानु(१२८५)वर्षे तपोत्पत्तिश्वोल्लिखिता, यतो मुनिसुन्दरसूरीयगुर्वावलीतः प्राख्न कस्मिन्नपि प्रन्थे जगचन्द्रसूरिभ्यस्तपा बिरुदप्राप्तिरुपलभ्यते, यैः कैरप्युद्घोषिता जगचन्द्रसूरिभ्यस्तपाविरुदप्राप्तिस्ते सर्वेऽपि मुनिसुन्दरसूरितोऽर्वाकालीना एव, । तेऽपि न सर्वेऽप्येकवचनाः, तथाहि
मुनिसुन्दरसूरिप्रभृतयस्तु यावज्जीवाचाम्लकरणात्स्वत एवं जगति तपेति ख्यातिमापन्नाः श्रीजगञ्चन्द्रसूरय इति जल्पन्ति, तद्यथा--" तदादि बाणद्विपभानु(१२८५)वर्षे, श्रीविक्रमायाप तदीयगच्छः । बृदुगणाढ्वोऽपि तपेति नाम, श्रीवस्तुपालादि. भिरर्यमानः ॥ ९६ ॥ " यदि च केनापि राणकेन नृपेण वा तपेति विरुदै दत्तमभविष्यत्तर्हि कथं नोल्लिखितमेभिः १। .....
अन्ये केचन जल्पन्ति, यदुत-आघाटपुरे राणकेन प्रदत्तं तपेति बिरुदं जगचन्द्रसूरिभ्यः, परं केन राणकेन प्रदत्तमिति तु अद्य यावन्न कुत्राप्युल्लेखो दृष्टिपथमायातस्तथाप्यद्यकालीना जना यद्वर्तमानपत्रेषु नामोल्लेखमपि कुर्वाणा दृश्यन्ते, तत्केन प्रमाणेनेत्ति तु तत्त्वविद एव विदन्ति ।
अन्ये पुनर्वदन्ति मण्डपदुर्गे राझ्या समर्पितं तपेति बिरुदं जगचन्द्रसूरिभ्यस्तद्यथा-" एणे आचार्य जावजीव आंबिलतप कर्या, बारे वरसे विहार करता मांडवगढने विषे राणी देखी तपाविरुद दीडो, विक्रमात् १२ पंच्यासी वरसे" इति मद्देशाणा संविमश्रमणोपायचित्कोषस्थायां सं. १८८१ वर्षे खेडमामे चन्द्रविजयलिखितायां चतुर्दशपत्रात्मिकायां तपापट्टावल्यामष्टमपत्रे। .... ' एतद्व्यतिरिकं सुरतद्रो हुकममुनिचित्कोपस्थैकस्मिन्पत्रे लिखित्तायां गाथायां ॥ तवोमयं देवभदाओ" इत्युल्लेखेन देवभद्रो. पाध्यायात्तपादिप्राप्तिराख्याता, न चैवत्कयनेऽनातत्वमाशकुनीयं, तपालब्धिसागरसूरिविनिर्मितपूथ्वीचन्द्रचरित्रप्रशस्तिपाठेनाप्ये
कर