________________
पिण्ड
शुद्धि ० | काइयो
पेतम्
८४ ॥
नाद 'भवत्परिशादि' भूमौ पतत्तदवयवं 'तदिति तस्मिथ- दातुः कराद्भूमौ पतति सति 'कायाः पृथिव्यादिजीवसमूहा, विराध्यन्त इति । 'पति' बन्दा, यथा-कथिद्धर्मघोषाख्यो मन्त्रीं गृहीतव्रतो विहरन् वारित्तकपुरं जगाम तत्र वारित्तकमन्त्रिगृहे मिक्षार्थं गतो, दीयमानमधुघृतान्वितपायसादधोमुखमधुविन्दुपातदर्शनादोषमन्वेष्य निर्गतः । तच्च गवाक्षस्थो वारितको (मन्त्री) विलोक्य कुतो भिक्षा न गृहीता ? इति यावच्चिन्तयति तावत्तत्र भूपतितमधुविन्दुके मक्षिका योगाद्गृहको किला तद्योगात्सरटस्ततो मार्जारस्तं प्रति प्राघूर्णकः श्वा वावितस्तदनु वास्तव्यः श्वा, तयोः कलहे तत्स्वामिनोर्विरोधादन्योऽन्यं सङ्ग्रामोऽभूत्, ततो वास्तिक्रेन चिन्तितं - अहो !! अनेनैव कारणेन मुनिना भिक्षा न जगृहे, धन्यः स इति शुभभावयोगाज्जातजातिस्मरणो देवताऽर्पित साधूपकरणः स्वयम्बुद्धो जात इति गाथार्थः ।। ९२ ।। इत्युक्तदोषनिगमनं प्रासैषणादोषांश्च प्रस्तावयन्नाह -
इय सोलस सोलस दस, उग्गमउप्पाय णे सणादोसा । गिहिसाहूभयपभवा, पंच उ + गासेसणाइ इमे । ९३॥ व्याख्या — इत्येवं पूर्वोक्तस्वरूपाः षोडश षोडश दश च प्रतीतरूपाः, यथाक्रममुद्रमस्योक्तरूपस्यैवमुत्पादनाया ग्रहणै पाया ये 'दोष' दूषणानि, ते यथासङ्ख्यं गृहिसाधू भयप्रभवा-दायकयतितद्वितयसमुत्था भवन्तीति शेषः । तत्र गृहिप्रभवा उद्गमदोषा, गृहिणा प्रायेण तेषां क्रियमाणत्वात्, साधुसमुत्था उत्पादनादोषाः, साधुनैव तेषां विधीयमानत्वात्, गृहिसाधुजन्या ग्रहणैषणादोषाः, शङ्कितदोषस्य साधुभावापरिणतदोषस्य च साधुजन्यत्वाच्छेषाणां च गृहिप्रमत्रत्वादिति, +" "
अ. य. ।
254
ग्रहणैषणानिगमनं
ग्रासपणा
प्रस्तावना
चा
॥ ८४ ॥