________________
इति गाथार्थः ।। ७६ ।। आदौ नामान्याह
संकि मक्खियं निखित्तै- पिहिये-साहरियं दाय-म्मीसे । अपरिणय- लित्तं-छड्डिये, एसणदोसा दस हवंति ॥ ७७ ॥
orror - 'शङ्क' सम्भाविताधाकर्मादिदोषं मक्तादि, इह च प्रथमैकवचनान्तता सर्वत्र दृश्या, तथा दोषवतो निर्देशेऽपि दोषदोषवतोमेदाङ्कायका गुणदोष उक्तः, तस्यैव विवक्षितत्वात् एवं सर्वत्र । 'प्रक्षितं' आरूषितं 'निक्षिप्तं' न्यस्तं 'विहितं' स्थगित 'संहतं' अन्यत्र क्षिप्तं 'दायको' दाता 'उन्मिश्रं' मिश्रीकरणं 'अपरिणतं' अप्रासुकादि 'लिप्तं' स्वरष्टितं 'छर्दितं' परिक्षादितं इत्येवमेते 'एषणादोषाः' पिण्डग्रहणदूषणानि दश 'भवन्ति' स्युरिति गाथासमासार्थः ॥ ७७ ॥
अथाद्यं शङ्किताभिधानदोषं व्याख्यातुमाह-
दी० - हह दोषदोषवतोर मेदादेषणादोषः प्रथमैकवचनान्तो ज्ञेयः । तत्र शङ्कितं सम्भाविताधाकर्मादिदोषं भक्तादि १, ग्रक्षितं सचित्तादिभिः २, निक्षितं तत्र न्यस्तम् ३, पिहितं तैः स्थगितम् ४, संहृतं तस्मादन्यत्र क्षिप्तम् ५, दायका बालादयः ६, उन्मिश्रं सचिचादियुक्तम् ७, अपरिणतं द्रव्यं भावो वा ८, लिप्तं स्वरष्टितम् ९, छर्दितं परिशाटनावद् १०, एवं एषणा दोषा दश भवन्तीति गाथार्थः ॥ ७७ ॥ अथाद्यं शङ्कितमाह-संकियगृहणे भोगे, चउभंगो तत्थ दुरिमा सुद्धा । जं संकड़ तं पावइ, दोसं सेसेसु कम्माई ॥ ७८ ॥
127