________________
पिण्डविशुद्धि ० टीकाद्वयो
पेतम्
।। ६६ ।।
लोचने चकार । पृष्टश्च तथा साधुर्यथा- किमेवं भगवानवृतिमानवलोक्यते ?, तेनाप्युक्तं यथा भवत्या सदृशी मे माता अभवदतस्तस्याः स्मरामीदानीं ततस्तया मातृत्वप्रकटनार्थं तन्मुखे खकीयस्तनमुखप्रवेशो विहितः । ततस्तयोः स्नेहवृद्धिः 'समजनि । तदनन्तरं चार्य मे मृतपुत्रस्थाने भविष्यतीति विचिन्त्य विधववधूसीव + दारतया तथा तस्मै प्रदत्तेति । एवं शेष संस्तरेष्वपि दोषभावना कर्त्तव्या इति गाथार्थः ॥ ७२ ॥
अथ विद्यादिदोषचतुष्टयं व्याचिख्यासुराद्द-
दी०-जननीजनक भ्रातृभगिन्यादिपूर्वसम्बन्धात्पूर्वसंस्तवः तथा पश्चात्संस्तवः श्वश्रूश्वशुरकलत्रपुत्रादि एवं यतिर्यं कञ्चन आत्मपरयोर्धय-खाय' परिचयं भक्ताद्यर्थं करोति, कथम्भूतं । तयोरात्मपरवयसोरनुगुणं - अनुरूपमिति गाथार्थः ॥ ७२ ॥ अथ विद्यादिदोषचतुष्टयं गाथाद्वयेनाहसाइणजुत्ता थीदे-वया व विज्जां विवज्जए मंतौ । अंतद्धाणाइफला, चुन्नों नयगंजणाईया ॥ ७३ ॥ सोहगदोहग्गकरा, पाचपलेवाइणो व इह जोग । पिंडट्ठमिमे दुट्ठा, जईण सुयवासियमईणं ॥ ७४ ॥
व्याख्या-'साघनेन' जपहोमायुपचारेण 'युक्ता' समन्विता अक्षरपद्धतिः साधनयुक्ता विद्या, स्यादिति योगः । लक्षणान्तरमाह - 'श्रीदेवया व'त्ति स्त्री प्रशस्यादिका 'देवता' अधिष्ठात्री यस्था अक्षरपक्तेः सा स्त्रीदेवता, वा विकल्पार्थः ।
+ ०दसीत्यवार ०" अ० । "०दीराऽऽसीत्ततया तस्मै " ५० ६० क० ।
118
द्वितीयों
स्पादना
दोषेषु
विद्यादि
दोष
चतुष्क
स्वरूपम् ।
॥ ६६॥