________________
संस्तवनं संस्तव इति गाथार्थः ।। ७१॥ सम्बन्धसंस्तवमेदावाहजणणिजणगाइ पुवं, पच्छा सासुससुराइ जं च जई । आयपरवयं नाउं, संबंधं कुणइ तदणुगुणं ॥७२॥
व्याख्या-'अननीजनकी मातापितरी 'आदी' प्रथमौ यस्य भ्रातृभगिन्यादिसम्बन्धस्य स सम्बन्धसम्बन्धिनोऽभेदोपचाराजगनीजनकादिः । किमित्याह-'पूर्व पूर्वसंस्तवो, जनन्यादीनां पूर्वकालभावित्वात् , स्यादित्यत्रोत्तरत्र च शेपः । तथा 'पश्चात पश्चात्संस्तवः, क? इत्याह-श्वश्रूश्वशुरौं' दम्पत्योः पितरौ 'आदी' प्रथमौ यस्य कलत्रपुत्रादिसम्बन्धस्य स सम्बन्धतद्वतोरभेदाध्यवसायाच्छश्रृश्वशुरादिः। एवं सम्बन्धिसंस्तवं सामान्येन भेदतोऽभिधाय प्रकृतोपयोगमाह-'जं चेत्यादि ये कञ्चन सम्बन्धं करोतीति योगः | च शब्दो भिन्नवाक्यताप्रतिपादनार्थः। क? इत्याह-'यतिः' साधुः। किं कृत्वा ? इत्याह-'आयपरवयं नाउंति आत्मपरौ प्रतीतो, तयोर्वय-स्तारुण्यवृद्धत्वादिलक्षणा देहावस्था, तं 'ज्ञात्वा' अवगम्य । किं ? इत्याहृ-'संम्बन्ध परिचयं-स्वाजन्यमिति यावत् 'करोति' भोजनलिप्सया विधत्ते । किंविशिष्टमित्याह-'तदनुगुणं' तयोरात्मपरवयसोरनुगुणं-अनुरूपं, स पूर्वसम्बन्धिसंस्तवः पश्चात्सम्बन्धिसंस्तवश्व, विज्ञेय इति स्वयमायोज्यं । तथाहि-यदि | साधुः स्वयं तरुणो दात्री तु वृद्धा, तदा सम्बन्धविधानार्थ वक्ति-मम माता श्वश्रूर्वा तव सदृशी आसीत्., अथ साऽपि तरुणी, तदा वक्ति-मम भगिनी भार्या वा त्वत्तुल्या बभूव, अथात्मना वृद्धः सा तु तरुणी नाला वा ततो वक्ति-मम सुता त्वत्समाना विद्यते स्मेत्यादिगमेन च भावनीयं । अत्र दृष्टान्तो यथाकश्चिशिक्षागतः साधुः काश्चिनिजमावसमानां गृहस्थामवलोक्याहासदिलम्पटतया मावस्थानतोऽधृतिपूर्वकमिव साश्रूणी
217