________________
तदाच्छेद्य-बाच्छेद्याख्यो दोषविशेषो भण्यत इति शेषः । एतच्च 'त्रिविध स्वामिप्रमुस्तेनलक्षणदायकमेदात्रिप्रकारं विजेयं । कुर र समरि 'ग' व 'कर साधूनां ग्रहीतुं युज्यते । किविशिष्टं सदित्याह-'अननुमतं' अननुन्नातं, अनुज्ञातं तु कल्पत एवेत्यर्थादुक्तं भवति । 'तेहिं ति 'ते' कौटुम्बिकादिभिरनेकदोषसम्भवात् । यदाह- "गोवालए य भयए, खरए पुत्ते य धूपसुण्हाय । अवि[अचि यत्तमसंखडाई, केह पओसं जहा गोवो ॥१॥" अस्या भावार्थ:-गोपालके तथा 'भृतके कर्मकरे 'व्यक्षरे' दासे तथा पुत्रे दुहितरि च 'स्नुषायां च' वधूटिकायां, चकाराहार्यादिपरिग्रहः । एतद्विषये प्रमोराच्छेद्यं स्यात्, ततश्च स यद्येतेभ्य:- स्वामिकौटुम्बिकादिभ्योऽपि, चौरास्तु पथिकादिभ्योऽपि, अनीप्सद्यः सकाशाद् गृहीत्वा भक्तादिकं प्रयच्छन्ति, साधवस्तूपरोधादिनाऽपि यदि गृहन्ति तदैते दोषाः स्युः । 'अग्रीतिगोपादीनां मानसं दुःखं स्यात् , तथा 'असंखडं कलहः, आदिशब्दादन्तराया-दत्तादान-कानेकद्रव्यव्यवच्छेदो-पाश्रयनिष्कासन-गालीप्रदानप्रमृतिदोषजालपरिग्रहः । तथा केचित् प्रद्वेषं साधोरुपरि गच्छेयुः, यथा-गोपः कश्चित् ।
किल केनापि प्रभुणा कस्यापि गोपस्य भृतिदिने तदीयदुग्ध कियदायाच्छिय साघवे दत्तं, साधुना तु गृहीतं । ततश्च स पयोमाजनमादाय स्वगृहमागमत् । दृष्टं च न्यून पयोभाजनं तद्भार्यया, ततः सा तस्मै आक्रोशान् दातुं प्रवृत्ता, चेटरूपाणि च रोदितुं लग्नानि । सतो गोपोऽप्युल्लसितबहलकोपानलः सज्जातसाधुवश्वपरिणाम इतश्चेतश्च तदन्वेषणं कुर्वाणो ददृशे साधुना, ज्ञाततदभिप्रायेण च तत्परितोषार्थमेवमालापश्चक्रे, यथा-गृहपतिनिधान्मया त्वदीयदुग्धं गृहीतं, साम्प्रतं च तवार्पणायोबलितोऽहं, ने चं भवद्गृई जानामीति गृहाणेदं, ततो गोपेन सज्जातोपशमेनोक्तं, यथा-तवैव भवत्वेतचिरं च त्वया जीवितव्य
129