________________
2006+%A4%%
| पमं साधुकृते गृहस्थः स्थापयति तत्स्थापनेति योगः । अनेन चाधारोपाधिकं स्वस्थानस्थापना परस्थानस्थापना चेति | स्थापनायाः सिद्धान्तप्रसिद्धं भेदद्वयं दर्शितं, यदाह-"सट्टाणपरट्ठाणे, दुविहं ठचियं तु होइ नायव्वं ।। किंचिशिष्टं तदशनादि स्थापयति ? इत्याह-'परंपराणंतरं 'ति अपरापरदध्यादिपर्यायसन्तानः परम्परः, म यस्य क्षीरादेविद्यते तत्परम्परसम्बन्धात्परम्परं । तथा न विद्यते ' अन्तर' पर्यायान्तरलक्षणो विशेषो यम्य तदनन्तरं घृतादि । ततश्च परम्परं चानन्तरं च परम्परानन्तरं-तत्परम्पररूपमनन्तररूपं चेत्यर्थः । अनेन च द्रव्योषाधिकं परम्परस्थापना अनन्तरस्थापना चेति ग्रन्थान्तराभिहितं स्थापनाभेदद्वयमुक्तं । तथा 'चिरित्तरिय ति 'चिरं च प्रभूतकाल 'इत्वरं च स्वल्पकालं चिरेत्वरं तव । अनेन च कालोपाधिकं चिरस्थापना इत्वरस्थापना चेति सिद्धान्तोक्तं स्थापनाया वैविध्यं प्रदर्शितं । इत्येवं सा 'द्विधा स्वस्थानादिभेदेन द्विप्रकारा । 'त्रिधाऽपि' प्रकारत्रयेणापि, न केवलमेकधा द्विधा वेत्यपि शब्दार्थः । अयमत्र भावार्थ:-प्रत्येकं सकलस्थापितमेदसमहात् स्वस्थानस्थापना परस्थानस्थापना चेत्येवं, परम्परस्थापना अनन्तरस्थापना | चेत्येवं वा चिरस्थापना इत्वरस्थापना चेत्येवं वा द्विविधा स्थापना भवतीति । स्थापन स्थापना-न्यसनमित्यर्थः, भवतीति
शेषः, अशनादि-मोजनपानादि यदनिर्दिष्टस्वरूपं किश्चित्स्थापयति-न्यस्यति-धारयतीत्यर्थः, गृहस्थ इति गम्यते, साधुकृते-यतिनिमिचमिति गाथार्थः ॥ ३८ ॥ अथ स्वस्थानादिस्वरूपं विमणिपुराह
दी०-स्वस्थानं भक्तपाकस्य चुल्ल्यादि, परस्थानं छब्बकादि, तस्मिन् अशनादि यत्स्थापयति समवर्थ सा स्थापना, तच कथम्भूतं? परम्परं क्षीरादि अनन्तरं घृतादि, उच्च तदिति समासः । तथा चिरेत्वरं-बहुकालाल्पकालमेदाद, एवं
159
AKALANKAR%-%ARVEER
: