________________
यशनादौ 'छुहे'त्ति 'क्षिपति संस्कारार्थं मध्ये प्रवेशयति तत्र वाघासे हिग्वादिदहनसमुत्थो धूमः हिङ्गुलवणे प्रतीते, नवरं - आधाकर्मिकत्वं हिङ्गुद्रव्यस्य स्वार्थनिष्पन्नमुद्गादिभक्तसंस्कारार्थं सचित्तोदकेन साधुनिमित्तं द्रवीकृतस्य, लवणस्य तु तदर्थमेव चूर्णितपरिणामितस्येत्यादिगमेन भावनीये । आदिशब्दाञ्जीरकादिपरिग्रह, इति गाथार्थः ॥ ३४ ॥ तथा
दी० - कार्मिकार्थं चुल्लीभाजने प्रतीते, डोवथटुकः उपलक्षणत्वादन्यदपि कार्मिकोपकरणं, तेषु स्थितं तद्वतं शुद्धमपि भक्तादि उपकरणपूत्याख्यं वज्यं, किं सर्वथा ? नेत्याह-कल्पते तत् 'पृथग्' विभिन्नं स्वयोगेनान्यत्र सङ्क्रामितमित्यर्थः । द्वितीयमाह - 'द्वितीय' भक्तापानाख्यं पूर्ति तत्स्यात् यत्र कार्मिकवरधार हिडलवणादीनि क्षिपेदाता संस्कारायेति गाथार्थः ॥ ३४ ॥ एतदेवाह---
कम्मिय वेसण धूमिय-महव कथं कम्मखरडिए भाणे । आहारपूइ तं कम्म - लित्तहत्थाइ छिक्कं च ॥ ३५ ॥
व्याख्या- 'कार्मिकवेसनेन' तसघृतादिक्षितकुस्तुम्बुरुणा, उपलक्षणत्वाद्राजिकादिना च 'धूमितं ' स्फोटितं सन्धूमितमिति यात्रत्, कार्मिकवेसन धूमितं यत्येवादीति गम्यते । अथचेति प्रकारान्तरद्योतनार्थः । 'कृतं' स्वार्थं निष्पादितं स्थापित वा यदशनादीति गम्यते । केत्याह- 'कम्मखर डिए भाणे'त्ति 'कर्मखरण्टिते' आषाकर्मलिप्ते 'भाणे' ति. भाजने स्थाल्यादिके । . तत्किमित्याह- 'आहारपूर्ति' भक्तपानपूर्ति स्यादिति शेषः, तत्पूर्वोक्तमशनादिकं । न केवलमेतदेव, किन्तु 'कर्म्मलिप्तहस्तादिस्पृष्टं च' व्यधाकर्मखरण्टितकर-करोटिकादिछु च । 'च' शब्द उक्तसमुच्चयार्थ इति गाथार्थः ॥ ३५ ॥
अथ दादगृहभाजन विषय पूतिविभागं साधुपात्र कल्पयाकल्प्यविधिं चाभिधित्सुराद---
155