SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ पि-16 विशुद्धि % टीकाइयोपेतस् ॥ ३३ ॥ अयमत्र मावार्थ:-इहापि 'संखडिभुत्तुवरियं' इत्याद्यनुवर्सते, ततश्च विवाहादिप्रकरणोपयुक्तावशेष यन्मोदकचूर्ण-मुद्: द्वादशविवे गौदनादिकं तदर्थमेव अग्नितापितगुडादिना पुनर्मोदकादि विधाय सुद्गादीन्वा पुनः संस्कृत्य सचित्तजल-लवणप्रभृति- विमागौद्रव्यसम्मिश्रदध्यादिना करम्बकं वा कृत्वा चतुर्णा यावदार्थकादीनामन्यतरनिमित्तमदिशति, तदौदेशिकमपि [ एतदेव 18 देशिक प्रन्थोक्तेन ] "आहाए वियप्पेणं, जईण कम्ममसणाइकरणं । छकायारंभेणं,तं आहाकम्ममाहंसु॥५॥" उद्दिष्टादिइत्येतल्लक्षणेन देशतः कर्मणा युक्तत्वात् 'कर्म' कम्ौदेशिकं ज्ञातव्यमिति गाथार्थः ॥३१॥ प्रयव्याख्यात औद्देशिकाख्यो द्वितीयः पिण्डोद्गमदोषः, अथ तमेव तृतीयं पूतिकर्माख्यं व्यचिख्यासुराह-- स्वरूपम् । दी.-'सङ्खड्यां' विवाहादौ मुक्तादुद्वरित-शेषीभूतं भक्तादि चतुर्णा पूर्वमायोकानां कने, यदिति सर्वत्र, 'उद्दिशति' मनोवाग्भ्यां निर्दिशति तदुद्दिष्टाख्यं, तदेवोद्वरित 'व्यञ्जनमिश्रादि दध्यादिना मिश्रितं कूरादि कृताख्यमुच्यते, अमिना तापितं गुडादिस्तदादिर्यस्य, आदिशब्दात्सचित्तजललवणादीनां सङ्ग्रहस्तदेवेथम्भूतं पुनः कर्माख्यं भवेदिति गाथार्थः ॥ ३१॥ उक्तं त्रयोदशधा औद्देशिक, अथ तृतीयं पूतिकर्माख्यमाह-- उग्गमकोडिकणेण वि, असुइलवेणं व जुत्तमसणाई। सुद्धपि होइ पूई, तं सुहुमं बायरं ति दुहा॥३२॥ व्याख्या-उद्गमकोटिरविशुद्धकोटिर्मलगुणा इत्येकार्थाः, सा चाधाकर्मलक्षणा. पक्ष्यति [अत्रैव]-"इय कम्म १४ उद्देसिय-तिय २ मीस ३ उज्झोयरंतिमदुगं च। आहारपूड १ थायर-पाहडि १ अविसोहिकोडित्ति ॥ ५३ ॥" तस्या उद्गमकोटेरुपचारादुद्गमकोटिदोषयुक्ताहारस्य 'कणोऽवयव उद्गमकोटिकणस्तेनापि, न केवलं बहुने % 152 E
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy