________________
SEX RAGNESIRE
'उद्वरित' शेषीभृतं भुक्तोद्वरितं यदोदन-तीमन-दधि-मोदकचूण्यांदिभक्त, तत्तदवस्थमेव 'चतुर्णी' चतुस्सयानां याचदर्थिकपाण्डिक-श्रमण-निर्ग्रन्थानामिति प्रक्रमाद्गम्यते, निमित्तमिति शेषः। 'उशिति मनसा सङ्कल्पयति वाचा वा निर्दिशति, गृहस्थ इति गम्यते, यथा-समस्तभिक्षुकेम्य इदं दातव्यं पापण्डिकेम्यो वेत्यादि, यदित्यस्य योगो दर्शित एव । 'तं' ति तद्भक्त, किमित्याह-'उद्दिष्टं उद्दिष्टौदेशिकं, ज्ञातव्यमिति शेषः । एतस्य चाकल्प्यता यावदर्थिकाद्यर्थ व्यवस्थापिते तत्र जीवघातमम्भवशात् । न चेदमित्थं स्थापनान्तर्भावि, 'सट्टाण-परहाणे'त्यादिभिन्नलक्षणत्वात्तस्या + इति । तथा 'वंजणमीसाइकई तंति 'व्यञ्जनेन' दध्यादिना 'मिथ' संयोजितं-व्यञ्जनमिश्र, तदादियस्य तद्यञ्जनमिश्रादि, यदोदनादीति प्रक्रमः। आदिशब्दश्च स्वगतानेकमेदसूचनार्थो व्याख्येयः। 'कृत' कृतौदेशिक नदोदनादि विज्ञेयमिति प्रक्रमः । इदमुक्तं भवति-'संवडिभुत्तुवरियं, चउण्हमुद्दिसइज' इत्यत्राप्यनुवर्त्तते, ततश्च प्रकरणोपभुक्तावशिष्टं यदोदनमोदकचूादिकं 'व्यञ्जनेन' दधि-तीमन-विकट-फाणित-निर्भञ्जनघृतादिना तदर्थमेव मिश्रं कृत्वा चतुर्णा यावदर्थिकादीनां अन्यतरनिमिचमुद्दिशति गृही, यदुत-इदममुकेभ्यो दातव्यमिति, तव्यं औद्देशिकमपि सत् करम्बकादिलक्षण| पर्यायान्तरेण कृतत्वात् 'कृतं' कृतौदेशिकमित्यवसेयमिति । तथा 'अग्गितवियाइ पुण कम्मति 'अग्नि वैशिस्तत्र तेन वा 'तापितं' उष्णीकृतं अग्नितापितं. गुडादीति गम्यते, तदादिर्यस्य तदग्नितापितादि, आदिशब्दात्सचित्त- I जल-लवण-राजिकासम्मिश्रदध्यादिपरिग्रहः। पुनः शब्दो भिन्नवाक्योपदर्शनार्थः। 'कर्म' कमौदेशिकं ज्ञातव्यं । ।
+ परम्परादिस्थापनाया मिन्नस्वरूपस्वादिति भावः (पर्यायः अ.)।
1ST