SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ पिण्डविशुद्धि ० काद्वयोपेतम् | २६ ॥ शुभमपि चारं अतिमिह विवक्षितमिति द्वितीयमङ्गप्रतिबद्धसूत्रसङ्क्षेपार्थः । तृतीयचतुर्थभङ्गकसूत्रं पुनरिदं-" समणोवासगस्स णं भंते ! तहारूवं अस्संजयं अविरये अप्पाडच'स्वाय पावकम्मं फासुएण वा अफासुरण वा एसणिज्रेण वा अणेसणिज्रेण वा असण पाण-वाइम साइमेणं पडिला माणस किं कज्जइ १, गोयमा ! एगंतसो से पावे कंमे कचड़, नत्थि से कावि निज्जरा कज्जह"त्ति, प्रतीतार्थं चैतन्नचरं--' असंयतः ' सप्तदशप्रकारसंयमाद्वहिर्भूतस्तथा विविध-मनेकधा द्वादशविधे तपसि रतो विरतस्तनिषेधादवितः । तथा प्रतिवानि स्थितिहासतो ग्रन्थिभेदेन प्रत्याख्यातानि हेत्वभावतः पुनर्वृद्धिनिरोधात् कर्माणि ज्ञानाचरणादीनि येन स तथा तनिषेधात् अप्रतिहत प्रत्याख्यातपापकर्मा, तं, एवं च ' असंजए' त्यादिना निर्गुणः पात्रविशेष उक्तः, फासुरण वा अफासुरण वेत्यादिना तु प्रासुकाप्रासुकादेर्दानस्य पापकर्मफलता निर्जराया अभावयोक्तः, असंयमोपष्टम्भस्योभयत्रापि तुल्यस्यात् । यश्च आसुकादी जीवधाताभावेन अप्रासुकादौ च जीवघातसद्भावेन विशेषः सोऽत्र न विवक्षितः । पापकर्मणो निर्जराया अभावस्यैव चेह विवक्षितत्वादिति तृतीयचतुर्थभङ्गसूचकसूत्रार्थः । एवं तावत्- ' सुपत्तसुद्धऽन्नदाणउभंगे पढमो सुद्धो' इत्यादिग्रन्थ सुखावबोधार्थं सव्याख्यानं सूत्रत्रयमपि निदर्शितं । अत्र च द्वितीय सूत्रभावार्थ अन्ये पुनराहुरकारणेऽपि गुणवत्पात्रायाप्रासुकादिदाने परिणामवशात्रहुतरा निर्जरा भवत्यल्पतरं च पापकर्मेत्यादिलक्षणमाश्रित्य 'पत्तविसेसे व होज्ज' चि प्राक्तन [विंशतितम] गाथाऽवयवार्थो भावनीय इति गाथार्थः || २२ || 6 उक्त दाने च तस्य ये दोषा इति षष्ठद्वारं, साम्प्रतं यथाप्रच्छेति सप्तमं द्वारं, तत्र यथा पृच्छा सम्भवस्तथा दर्शयितुमाह--- 138 लघुघुताबुद्धमायेंदोघे दानपात्रयोश तुङ्गी । ॥ २६ ॥
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy