________________
**
*
।
*
**
स्तस्य-द्रव्ययतेः सर्वजिनाज्ञाविमुखस्य आराधना मृगतिहेतृत्वनुष्यानरूपा नास्तीति गाधार्थः ॥ १९ ॥
उक्तं तदशने दोषद्वारं, अथ षष्ठं तदाने दोषाख्यमाहत जइणो चरणविघाइ-त्ति दाणमेयस्स नत्थि आहेण । बीयपए जइ कत्थ वि, पत्तत्रिसेसे व होज जओ।२०
व्याख्या—'यते' साधोः सम्बन्धि 'चरणं' चारित्रं विहन्ति विषमिश्रामवत्प्राणान् परिभुक्तं सद्विनाशयतीत्येवं शीलं चरणविधाति । उपलक्षणं चैतत्तदायकाशुभाल्पायुर्वन्धनिवन्धनत्वस्य, तथा च प्रज्ञप्तिसूत्रं-[श. ५ उ. ६ पत्र २२५] "कहपणं भंते! जीवा अप्पाउयत्ताए कम्मं पकरेंति ?, गोयमा!(तिहिं ठाणेहि, तंजहा-)पाणे अइवाइत्ता १, मुसं वइत्ता २, तहारूवं समणं वा माहणं वा अफासुएणं अणेसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेत्ता ३, एवं स्वलु जीवा अप्पाउयत्ताए कम्मं पकरेंति ।" अस्यार्थः- कथं ' केन प्रकारेण, 'ण'मिति वाक्यालङ्कारमात्रे, मदन्त ! 'जीवा' प्राणिनः "अप्पाउयत्ताए ति-अल्पमायुर्यस्यासावल्पायुष्कस्तस्य मावस्तत्ता, तस्यै-अल्पायुष्कताये, स्वल्पजीवितव्यनिवन्धनमित्यर्थः, अल्पायुष्कतया वा कर्म आयुष्कलक्षणं 'प्रकुर्वन्ति' बन्नन्ति । ('पाणे अइवाइत्त' त्ति) प्राणान-जीवान'तिपात्य' विनाश्य 'मुसं वइत्त 'त्ति मृपावादमत्वा 'तहारूवं 'सि तथाविधस्वभाव-भक्तिदानोचितपात्रमित्यर्थः 'समर्णव'सि'श्राम्यति' तपस्यतीति श्रमणोऽतस्तं 'माहणं व 'त्ति मा इनेत्येवं योज्यं प्रति वक्ति स्वयं हनननिवृत्तः समऽसौ माहनः, अथवा ब्रम-ब्रह्मचर्य कुशलानुष्ठानं वाऽस्यास्तीति ब्राह्मणोऽतस्तं, 'वा' शद्धी समुच्चये, 'अफासुएर्ण'तिन प्रगता असवो' असमन्तो यस्मादप्रासक-सजीवमित्यर्थः, तेन, 'अणेसणिज्जेणं'ति
131
.
..
.