________________
"
चः समुचये, भवेजायेत । यत आह- "खद्धे निद्धे य रुघा, सुत्ते हाणी तिगिच्छणे काया । पडियरगाण य हाणी, कुइ किलेसं च किस्संतो ॥ १ ॥ अस्या अपि भावार्थ : – किलाघाकर्म प्रायः प्राघूर्णकस्येव साधोरपि गौरवेण विधीयत इति स्वादुः स्निग्धं च स्यात्, ततश्च ' वद्धे 'ति प्रचुरे स्वादुतया स्निग्धे च तस्मिन् भक्षिते सति 'रुजा 'ज्वरविसूचिकादिलक्षणो व्याधिः स्यादनेन चात्मविराधनोक्ता, ततत्र 'सुत्ते 'ति सूत्रार्थ पौरुष्यकरणात्सूत्रार्थयोनिः स्वासथा चिकित्सायां क्रियमाणायां 'कायाः पृथिष्यादयो व्यापाद्यन्ते । तथा प्रतिजानरकसाधूनां च हानिः सूत्रार्थयोरनेन च संयम विराधनोक्ता तथा करोति क्लेशं दीर्घरोगितामित्यर्थः, 'क्लिश्यमानः ' पीडामनुभवत्सन् । अनेन चोभयचिराधनोक्ता । उपलक्षणत्वाच्चाहो घस्मराX अमी सितपटभिक्षव, एतत् शास्त्रकारेण चामीषां सम्यग्भोजनादिविधिर्नोपदिष्टो येनैते एवमनुभवन्तीत्यादिलक्षणा प्रवचनविराधनाऽपि द्रष्टव्या इति गाथार्थः ॥ १७ ॥
अथ प्रागुक्तानतिक्रमादिदोषान् व्याख्यातुमाह-
दी० - आधा कर्मग्रहणे अतिक्रमव्यतिक्रमों तथा अवीचारा-नाचारौ वक्ष्यमाणार्थौ दोषौ स्यातां । किमन्येऽपीत्याह' आज्ञामङ्गः सर्वज्ञवचनातिक्रमः, तथा ' अनवस्था' अन्येषां धर्मेऽनास्था, तथा मिध्यात्वं यथोक्ताकरणात, तथा विराधना आत्मसंयमो भयरूपा, तत्र गौरवादाघाकर्म, तच्च स्त्रिग्धं रोगायेत्याद्यात्मविराधना, तद्योगे संयमस्योभयस्यापि 'मवेदिति गाथार्थः ॥ १७ ॥ अतिक्रमादीनामर्थमाह
x" भक्षणशीला " इति पर्यायो मां, पुस्तके |
127