________________
*
*
*
गोमयोन्मृष्ट कल्पते, नान्यथेति । अत्र सुराग्रहणं शिष्टानुसारेण, अन्यथा वान्तादीन्यपि कुकराद्यशनाद्भक्ष्याणि स्युः, अतो वान्तादिवत्सर्वथेदं साधुभिस्त्याज्यं । अत्रार्थे दृष्टान्तमाह-कश्चित्सेवको मिलनायातभ्रातृकते स्वमहिलाया मांसमर्पयत् । तदन्यापूतायां मार्जारेण भक्षितं, सा तदभावेन भईभीता मृतकमांसं शुना वान्तं दृष्ट्वा तदेव संस्कृत्य तयोर्ददौ तौ च गन्धादिना तद्वान्तं विज्ञाय तां च निर्मळ नवीनमानीय भुक्तो। केऽप्याहु:-सा केनाप्यतीसारिणा व्युत्सृष्टं मांसमाप, तच्च चालकेन पितुराख्यावमिति, एवामाधाकर्माप्यमोज्यमिति गाथार्थः ॥ १६ ॥
उक्तं यादृशद्वारं, अथ तदशने ये दोषा इति पञ्चममाहकम्मग्गहणेऽइक्कम-वइकमा तहऽइयाऽणायारों । आणाभंगऽणवत्था, मिच्छत्तै-विराहों य भवे ॥१७॥
व्याख्या-'कर्मण' आधाकर्मणो ‘ग्रहणं' उपादानं कर्मग्रहणं । इह च 'कर्मग्रहणमित्युक्तेऽपि “ आहा- | कम्मग्गाही, अहो अहो नेह अप्पाण "मित्यादाविव भक्षणमित्यपि व्याख्येयं, (+यतः)ग्रहणमात्र एवं वक्ष्यमाणदोषासम्भवात् प्रस्तुतद्वारविरोधाश्च । तस्मिन्सति किमित्याह-'अइफमे 'त्यादि, अतिक्रमव्यतिक्रमौ वक्ष्यमाणलक्षणो, दोषाविति शेषः, बचनष्यत्ययामवेतामिति वक्ष्यमाणक्रियायोगः। तथाऽतीचारानाचारौ वक्ष्यमाणलक्षणावेव । किमियन्त एव तद्ग्रहणे दोषा भवेयुरुवान्येऽपि १, उच्यते-अन्येऽपि, यत आह-' आणे'त्यादि, 'आज्ञा 'सर्वज्ञवचनं, तस्या 'भङ्गोऽतिक्रमणमाज्ञामजस्तग्रहणे मवेत् । आह च-" आणं सव्वजिणाणं, गिण्हंतोतं अइकमइ लुद्धो। आणं चाइक+ केबल अ पुस्तक एवोपळभ्यतेऽयं शब्दः।
125
SRG