SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ | उक्ताः प्रतिषेवणाद्याः, अतस्तद्योगे विधेयमाह-ततः कारणात्तान-कार्मिकमोजिनो यतीन् तच्चाधाकर्म त्रिविधं त्रिविधेन-मनोबाकायैस्त्यजेदिति गाथार्थः ॥ १५ ॥ उक्तं यथेति द्वारं, अथ यादृशं तदिति चतुर्थमाहबंतुच्चारसुरागो-मंससममिमंति तेण तज्जुत्तं । पत्तं पि कयतिकप्पं, कप्पइ पुव्वं करिसघटुं ॥१६॥ व्याख्या-'वान्तं च भुक्तोद्विलितं 'उच्चारच पुरीपं 'सुरा च' मद्यविशेषो 'मोमांसं च' बहुला+ पिशितं, तानि तथा, है तैरत्वन्तं सर्वजनजुगुप्सितैः 'समतुल्यं संयमिना निन्धत्वादिदमाषाकर्मिकभक्तादि । इति शब्दो यस्मादर्थस्ततश्च यस्मादिद मेभिरतिकुत्सितः समानं, तेन कारणेन तद्युक्तं' तेनाधाकर्मणा 'युक्तं' खरण्टित, किं तदित्याह-'पात्रमपि' भाजनमपि 'कयतिकप्पं ति कृता-विहितात्रयखिसलथा: 'कल्पाः' समयप्रसिद्धा धावनप्रकारा यस्य तत्कृतत्रिकल्पं, तदेव किं १ 'कल्पते' यतीनां परिभोक्तुं युज्यते। किंविशिष्टं सदित्याह-'पूर्व' कल्पकरणकालाप्रथमतः 'करीषघृष्टं' शुष्कगोमयसंसृष्टं । इदमुक्त भवति-यदि कथश्चिदनामोगादिगृहीताधाकर्मभक्तादिना संसृष्टं भाजनं स्यात्तदा गोमयादिसम्मार्जनतो निर्लेपताविधानपुरस्सरं कल्पत्रये कृते सत्येव तत् साधूनां परिभोक्तुं कल्पते, नान्यथा, अतो चान्तोच्चारादिवत्तदप्यत्यन्तं गर्हितमेवेति । अत्र कश्चिदाह-वान्तोच्चारगोमांसग्रहणमत्र कर्तुमुचितं, न सुराग्रहणं, तस्या लोकपेयत्वात, पेयस्य च जुगुप्सितत्वेनानारूढत्वाद् अन्यथा पेयत्वायोगात् । नैवं, तस्याः कैश्चिदेव जघन्यचरितैः पाने आचरितत्वात न च तदाचरितमपि शिष्टानांप्रमाण, अन्यथा + "एकवारप्रसूता गौ बहुला इत्युच्यते” इति पर्यायः अ । "बहुला तु, सुरभ्यां नीलिकैलयोः ।। १२७३ ॥” इति हैमानेकार्थः । 123 AtES AST RECSI
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy