SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ पिण्ड विशुद्धि ० टीकाद्वयो पेतम् ॥ १२ ॥ उक्तरूपप्रवचनलिङ्गाभ्यां सङ्घान्तर्वर्त्तिसाधूनां सङ्घान्तर्वर्त्तिसाधु-रेकादशप्रतिमाप्रतिपसश्रावकश्च साधम्मिको भवति, तस्य कृते अशनादि कृतं आधाकर्म भवतीति । अनेन च प्रवचनतः साधर्मिको न लिङ्गतः १, लिङ्गतो न प्रवचनतः २, प्रवचनतो लिङ्गतच २, न प्रचचनतो न लिङ्गतः ४, इति सिद्धान्तप्रसिद्ध चतुर्भङ्गीतृतीय भङ्गवर्त्तिसाधम्मिकार्थं कृतं न कल्पत इति प्रतिपादितं । एतद्वर्ण्य शेष भङ्गत्रयसम्भविसाघम्मिकेभ्यस्तु कृतं कल्पत एवेत्याह 'पत्तेयबुद्धनिण्ये' त्यादिपश्चार्द्ध-तत्रैकं वृषभादिनानिमित्तं प्रतीत्य बुद्धाः प्रत्येकबुद्धाः - समयप्रसिद्धसाधुविशेषाः, ते च सम्भवे सति जघन्यतो रजोहरणमुखपोतिका - मात्रोपकरणकलिता उत्कृष्टतस्तु चोलपट्टक मात्रक कल्पनिक वर्जित नवविधोपधिधारिणः तथा नियमतो जघन्यत एकादशाङ्गश्रुतविद उकृष्टतस्तु भित्रदशपूर्वश्रुतवेदिनः, तथा देवताऽर्पितलिङ्गाः ' रूप्पं पत्तेयबुद्ध 'त्ति वचनालिङ्गयर्जिता वा भवन्तीति' तथा 'निन्दुर' सामान निराकुर्वन्तीति निन्हवा - जमालि-तिष्यगुप्तप्रभृतयः । तथा येनेह जीवा जन्मजरामरणसलिलं मिथ्यादर्शनाविरतिगम्भीरं महाभीषणकषायपातालं सुदुरुत्तरमहामोहावर्तरौद्रं विचित्र दुःखौघदुष्टश्वापदगणं रागद्वेषपवनप्रक्षोभितं सन्ततसंयोगवियोगतरङ्गदुर्गमं प्रबलमनोरथवेलाकुलं संसारापारसागरं तरन्ति तत्तीर्थ, तच्च प्रवचनं तदाधारत्वाच्चतुर्वर्णश्रमण सङ्घश्व, तत्कुर्वन्तीति तीर्थकराः शास्तारः, एतेषामर्थाय - निमित्तं कृतमशनादीति प्रक्रमः । पुनः शब्दो भिवाक्यताप्रतिपादनार्थः । ' कल्पते ' गृहीतुं युज्यते । अयमिह भावार्थ:- प्रत्येकबुद्धास्तीर्थकराश्च प्रवचनलिङ्गातीतत्वात् ' न प्रवचनतो न लिङ्कत' इति चतुर्थे भङ्गे वर्त्तन्ते, अतस्तदर्थं कृतं कल्पते, आधाकर्मत्वाभावात् उक्तं च कल्प भाष्ये+ " भवतीति अ. 1 * " एववर्ज " प. ६. क. x " मुखवस्त्रिका " अ. य. । 110 यस्य कृतेकृतमाधा• कर्म स्यात्तनिरूपणम् ॥ १२ ॥
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy