________________
माहारप्रयं यथासम्भवं नयेत् , कोऽर्थः ?, साध्वर्थ कूपादिखनन १चिर्भटिकादि २हरीतक्याद्यारोपणादि ३मात्रैः कतनिष्ठिते (प्रतीते), श्रोतृप्रतीतौ प्रापयेत् । अत्रोदाहरणं-एकस्मिन् ग्रामे कदशनाहारिणि सूरियोग्यभक्तालामात्साधवः मूरि नानयन्ति, श्रावकश्चैकस्तदृत्कण्ठितः । अन्यदा केषानित्साधूनां वर्षाक्षेत्रं विलोक्यानिच्छया पश्चाद्गच्छतां तेन साधुरेकः पृष्टःकुतः क्षेत्रं न रुचितं , स च ऋजुको गुरुप्रायोग्यशाल्योदनाद्यभावादित्याह । ततस्तेन वर्षाकाले शालिरुतो बहुकश्च जातो, यतिध्वागतेषु स्वजनगृहेषु शालीन् दत्वा भणितं-स्वयं भोक्तव्यः साधूनाश्च दातव्यः, तैस्तथा कृते 'मावर्थ शालि'रिति चालकाद्यालापाद् बाह्यलिङ्गैथानेषणां ज्ञात्वा ते न जगृहुः । एवं पानकाद्याहारेध्यपि लक्ष्यमिति गाथार्थः ॥ ११॥
उक्तं यदिति द्वार, साम्प्रतं यस्येति द्वितीयमाह--- साहम्मियस्स पश्यण-लिंगेहिं कए कयं हवइ कम्म। पत्तेयबुद्धनिण्हय-तित्थयरट्ठाए पुण कप्पे ॥१२॥
व्याख्या-साहम्मियस्स'त्ति 'समानेन' तुल्येन 'धर्मेण' स्वभावेन चस्तीति साधर्मिको, विक्षितसहशपर्यायबानित्यर्थः, तस्य कथमिह साधम्मिकता ग्राह्येत्याह-'पश्यणलिंगेहिं 'ति, प्रवचनं च लिङ्गं च प्रवचनलिङ्गे, ताम्यां ।। तत्र प्रवचन-सकलजीवादिपदार्थप्ररूपकं अत्यन्तानवद्यचरणकरणप्रवर्तकं अचिन्त्यशक्तिकलितं अविसंवादकं भवार्णवमणपरमबोहित्थकल्पं द्वादशाझं, तस्य च निराधारस्याऽसम्भवाचदाधारभूतः सोऽपि प्रवचनं, तथा 'लिजयते' चिह्नघते साधुरनेनेति लिङ्गजोहरणास्वपोतिकागोच्छकपात्रकादीनि । 'कए'ति 'कते' निमित्तं 'कयं "ति 'कृतं' विहितं, अनादि-इति गम्यते भवति' जायते, किमित्याह-'कम्म' ति सूचकत्वादाधाकर्माभिहितशब्दार्थ, इदमुक्तं भवति
103
१C24