SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ पिण्ड शुद्धि० काद्वयो पेतम् ॥ ८ ॥ 'चि 'दाने' वितरणे गृहस्थस्य ये दोषा यतिसत्कचरणघातादयः स्युस्तान्वक्ष्ये च शब्दो दोषानुकर्षणार्थः तथा च वक्ष्यति 'जहणो चरणे'त्यादि ६ । तथा 'जहा पुच्छ 'त्ति 'यथा' येन प्रकारेण देशाद्यनुचित + भक्तदानादिलक्षणेन 'पृच्छा' प्रश्नः सम्भवति, वक्ष्यति च 'देसाणुचियं बहुव्व 'मित्यादि ७ | तथा 'छलण 'चि 'छलना' साधोर्भिक्षार्थं प्रविष्टस् तथाविधकारणैरनेषणीयाऽऽशङ्काऽभावादशुद्ध भक्तग्रहणरूपा व्यंसना यथा स्यात्, वक्ष्यति च- 'धोवंति न पुढ' मित्यादि ८ । तथा 'सुद्धी 'ति 'शुद्धिः' कथञ्चिदशुद्ध पिण्डग्रहणेऽपि निर्दोषता यथा स्यादेतद्विपक्षत्वाचाशुद्धिर्यथा स्यात्, च शब्द उक्तसमुचये । 'तह वोच्छं 'ति । ' तथा 'तेन शुद्ध ग्रहणपरिणामादिना प्रकारेण 'वक्ष्ये' अभिधास्ये, वक्ष्यति च - 'आहाकम्मपरिणओ' इत्यादि ९ । इति द्वारगाथा समासार्थः ॥ ८ ॥ सम्प्रत्याद्यद्वारं व्याचिख्यासुराह— दी० - 'तत्' आधाकर्म, पुनर्विशेषोक्तौ यद्भक्तादि १, यस्य कृते कृतं स्यात् २, यथा-यैः प्रकारैः ३, यादृशं यत्तुल्यं ४, अशने च तस्य ये दोषाः ५, दाने दातुश्च ये [ दोषाः ] ६, यथा पृच्छा-बाह्याचरणदर्शनात्प्रश्नः ७, छलना अनेपणीयाशङ्काभावादशुद्ध ग्रह ८, शुद्धिव- सदोषपिण्डग्रहणेऽपि निर्दोषता ९, तथा वक्ष्ये इति गाथार्थः ॥ ८ ॥ अथाधद्वारमाहअसणाइचउन्भेयं, आहाकम्ममिह बेंति आहारं । पढमं चिय जइजोग्गं, कीरतं निट्ठियं च तहिं ॥ ९ ॥ व्याख्या – 'असणाइचउन्भेयं' ति 'अशनं' भोजनं 'आदि:' प्रथमं येषां पानखादिमस्वादिमानां ते तथा, + "सदानादिभक्तलक्षणेन" अ य । "तदानादिलक्षणेन इ. क. प. 1 102 उद्गमा द्यदोष निरूपणे द्वारनवक* नामानि ॥ 11-211 "
SR No.090361
Book TitlePindvishuddhi Prakaranam
Original Sutra AuthorUdaysinhsuri
AuthorBuddhisagar
PublisherJindattsuri Gyanbhandar
Publication Year
Total Pages290
LanguageSanskrit
ClassificationBook_Devnagari, Agam, & Canon
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy