________________
पवयणसारो ]
जानिनो नास्ति । कथंभूतम् ? बेहगयं देहगतं देहाधारजिहन्द्रियादिसमुत्पन्न कवलाहारादिसुखम्, असातोदय जनितं क्षुधादि:दुःख च । कस्मानास्ति ? ब्रह्मा कवियत्तं जावं यस्मान्मोहादिधातिकर्माभावे पञ्चेन्द्रियविषयसुखाय व्यापार रहितत्व जातम् । तह्मा दुतं यं तस्मादतीन्द्रियत्वाद्धेतो. रतीन्द्रियमेव तज्ज्ञानं सुखं च ज्ञेयमिति । तद्यथा – लोहपिण्डसं मर्गाभावादग्निर्यथा धनधातपिट्टनं न लभते तथायमात्मापि लोहपिण्डस्थानीयेन्द्रियग्रामामावत् सांसारिक सुखदुःखं नानुभवतीत्यर्थः । कश्चिदाह के बलिन भुक्तिरस्ति, औदारिकशरीरसद्भावात् । असद द्यकर्मोदय सद्भावाद्वा । अस्मदादिवत् परिहारमाह-तद्भगवतः शरीरमौदारिकं न भवति किन्तु परमौदारिक तथाचोक्त
शुद्धस्फटिकसंकाशं तेजोमूर्तिमयं वपुः ।
जायते क्षीणवोषस्य सप्तधातुविजितम् ॥ __ यच्चोक्तमसद्वेयोदयसद्भावात्तथ परिहारमाह-यथा नोह्यादिबीजं जलसहकारिकारणसहितमंकरादिकार्य जनयति तथैवासद्वद्यकर्म मोहनीयसहकारिकारणसहितं क्षधादिकार्यमुत्पादयति । कस्मात् ? मोहल्स बलेण घादवे जीव' इति वचनात् । यदि पुनर्मोहाभावेपि क्षुधादिपरीषहं जनयति तहि बधरोगादिपरीषहमपि जनयत् न च तया । तदपि क मात् ? 'मुक्त्युपसर्गामायाद' इति वचनात् । अन्यदपि दूषणमस्ति । यदि क्षुधाबावास्ति तहि क्षुधाक्षीणशक्तेरनन्तवीर्य नास्ति । तथैव क्षधादुःखितस्यानन्तसुखमपि नास्ति । जिह्वन्द्रियपरिच्छित्तिरूपमतिज्ञानपरिणतस्य केवलज्ञानमपि न संभवति । अथवा अन्यदपि कारणमस्ति । अस वेद्योदयापेक्षया सद्योदयोऽनन्तगुणोस्ति । ततः कारणात् शर्कराराशिमध्ये निम्ब कणिकावदमद्वेद्योदयो विद्यमानोपि न ज्ञायते । तथवान्यदपि बाधकमस्ति-यथा प्रमत्तसंयतादितपोधनानां वेदोदये विद्यमाने पि मन्दमोहोदयत्वादखण्डब्रह्मचारिणां स्त्रीपरीषहबाधा नास्ति । यथैव च नवगैवेयकाद्यहमिन्द्र देवानां वेदोदये विद्यमानेपि मन्दमोहोदयेन स्त्रीविषयबाधा नास्ति, तथा भगवत्यसद्वद्योदये विद्यमानेपि निरवशेषमोहाभावात् क्षुधाबाधा नास्ति । यदि पुनरुच्यते भवद्भिः-मिथ्यादृष्टयादिसयोगकेवलिपर्यन्तास्त्रयोदशगुणस्थानवतिनो जीवा आहारका भवन्तोत्याहारकमार्गणायामाममे भणितमास्ते, ततः कारणात् केवलिनामाहारोस्तीति । तदप्ययुक्तम् । परिहार:
णोकम्म-कम्महारो कबलाहारो य लेष्यमाहारो।
ओजमणो वि य कमसो आहारो छस्विहो यो । इति गाथाकथितक्रमेण यद्यपि षट्प्रकार आहारो भवति तथापि नोकर्माहारापेक्षया केव. लिनामाहारकत्वमवबोद्धव्यम् । न च कवलाहारापेक्षया। तथाहि-सूक्ष्मा: सुरसाः सुगन्धा अन्य. मनुजानामसंभावन: कवलाहारं विनापि किञ्चिनपूर्वकोटिपर्यन्तं शरोरस्थितिहेतवः सप्तधातुरहितपरमौगरिक शरीरनोकर्माहारयोग्या लाभान्तगयकर्मनिरवशेषक्षयात् प्रतिक्षणं पुद्गना आसवन्तीति नवके वलिलब्धिव्याख्यानकाले भणितं तिष्ठति । ततो ज्ञायते नोकर्माहारापेक्षया केवलिनामाहारकत्वम् । अथ मतम्-भवदीयकल्पनया आहारानाहारकत्वं नोकर्माहारापेक्षया, न च कवलाहारापेक्षया चेति कथं ज्ञायते नैवम् । “एक द्वौ त्रीन् वानाहारकः" इति तत्त्वार्थे कथितमास्ते। अस्य सूत्रस्पार्थः कथ्यते-भवान्तग्गमनकाले विग्रहगतो शरीराभावे सति नुतन शरीरधारणार्थ त्रयाणां शरीराणां षण्णां पर्याप्तीनां योग्यपुद्गलपिण्डग्रहणं नोकर्माहार उच्यते । स च विग्रगती