________________
पक्यणसारो ।
[ ६३५ भव नहीं किये गये, भगवान् आत्मा को निश्चय से पाता है जो भगवान आत्मा तीनों काल के निरवधि प्रवाह में स्थायी होने से सकल पदार्थों के समूहात्मक प्रवचन का सारभूत है ॥२७५॥
इस प्रकार (श्रीमद भगवत्कुन्दकुन्दाचार्यदेवप्रणीत) श्री प्रवचनसारशास्त्र की श्रीमद्अमृतचन्द्राचार्यदेव विरचित तत्त्वदीपिका नामक टीका में चरणानुयोगसूचक चूलिका नाम का तृतीय श्रुतस्कंध समाप्त हुआ।
तात्पर्यवृत्ति अथ शिष्यजनं शास्त्रफलं दर्शयन् शास्त्रं समापयति ;
पप्पोवि प्राप्नोति सो स शिष्यजनः कर्ता ! कम् ? पवयणसारं प्रवचनसारणब्दवाच्यं निजपरमात्मानम्। केन ? लहणा कालेण स्तोककालेन । यः किं करोति ? जो बुज्झवि यः शिष्यजनो बुध्यते जानाति । किम् ? सासणमेयं प्यास्त्रमिदम् । कि नाम ? पवयणसारं प्रवचनसारं सम्यग्ज्ञानस्य तस्यैव ज्ञेयभूतपरमात्मा दिपदार्थानां तत्साध्यस्य निर्विकारस्वसंबेदनज्ञानस्य च तथैव तत्त्वार्थश्रद्धानलक्षणसम्य. ग्दर्शनस्य तद्विषयभूतानेकान्तात्मकपरमात्मादिद्रव्याणां तेन व्यवहारसम्यक्त्वेन साध्यस्य निजशुद्धात्मरुचिरूपनिमाम्यक्त्वरण तापव ३ सातामसिकालानरूपस्य सरागचारित्रस्य तेनैव साध्यस्य स्वशुद्धात्मनिश्चलानुभूतिरूपस्य वीतरागचारित्रस्य च प्रतिपादकत्वात्प्रवचनसाराभिधेयम् । कथंभूतः स: शिष्यजन: ? सागरणगारचारियया जुत्तो सागारानागारचर्यया युक्तः । अभ्यन्तररत्नत्रयानुष्ठानमुपादेयं कृत्वा बहिरङ्गरत्नत्यानुष्ठानं सागारचर्या श्रावकचर्या । बहिरङ्गरत्नत्रयाधारेणाभ्यन्तररत्नत्रयानुष्ठानमनागारचर्या प्रमत्तसंयतादितपोधनचर्येत्यर्थः ।।२७।।।
इति गाथापञ्चकेन पञ्चरत्नसंज्ञ पञ्चमस्थलं व्याख्यातम् । एवं णिच्छिदसुत्तत्थपदो' इत्यादि द्वात्रिंशद्गाथाभिः स्थलपञ्चकेन शुभोपयोगाभिधानपचतुर्थान्तराधिकारः समाप्तः ।।
इति श्री जयसेनाचार्यकृतायां तात्पर्यवत्ती पूर्वोतक्रमेण एवं पणमिय सिद्धे' इत्याद्यकविंशतिगाथाभिरुत्सर्गाधिकारः । तदनन्तर ' हि णिरवेक्खो चागो' इत्यादि त्रिंशद्गाथाभिरपवादाधिकारः । ततः परं 'एयग्गगदो समणो' इत्यादिचतुर्दशगाथाभिः श्रामण्यापरनामा मोक्षमार्गाधिकारः । ततोऽप्यनन्तरं 'णिच्छिदसुतस्थपदो' इत्यादिद्वात्रिंशः गाथाभिः शुभोपयोगाधिकारश्चेत्यन्तराधिकारचतुष्टयेन सप्तनवतिगाथाभिश्चरणानुयोगचूलिका नामा तृतीयों महाधिकारः समाप्त: ।।३॥
अत्राह शिष्यः । परमात्मद्रव्यं यद्यपि पूर्व बहुधा व्याख्यातम् तथापि संक्षेपेण पुनरपि . कथ्यतामिति । भगवानाह-केवलज्ञानाद्यनन्तगुणानामाधारभूतं यत्तदात्मद्रव्यं भण्यते। तस्म च नये: प्रमाणेन च परीक्षा क्रियते । तद्यथा-यत्तावत् शुद्धनिश्चयेन निरुपाधिस्फटिकवत्समस्तरागादिविकल्पोपाधिरहितं तदेवाशुद्धनिश्चयनयेन सोपाधिस्फटिकवत्समस्तरागादिविकल्पोपाधिसहितम्, शुद्धसद्भुतव्यवहारनयेन शुद्धस्पर्शरसगन्धवर्णानामाधारभूतपुदगलपरमाणुवत्केवलज्ञानादिशुद्धगुणानामाधारभूतम् । तदेवाशुद्धसद्भूतव्यवहारनयेनाशुद्धस्पर्शरसगन्धवर्णाधारभूतदयणुकादिस्कन्धवन्मतिमानादिविभावगुणानामाधारभूतम् । अनुपचारितासभृतव्यवहारनयेन चणुकादिस्कन्धसंश्लेशबन्धस्थितपृद्गलपरमाणुवत्परमौदारिकशरीरे वीतरागसर्वज्ञवद्वा विवक्षितैकदेहस्थितम् उपचरितासद्भ तव्यबहारनयेन काष्ठासनाद्युपविष्टदेवदत्तवत्समवशरणस्थितवीतरागसर्वज्ञवद्वा विवक्षितकग्रामगृहादिस्थितम् ।