________________
पवयणसारो ]
। ४६६ अथोपसंपचे साम्यमिति पूर्वप्रतिज्ञां निर्वहन् मोक्षमार्गभूतां स्वयमपि शुद्धात्मप्रवृत्तिमासूत्रयति
तम्हा तह जाणित्ता अप्पाणं जाणगं समावेण' । परिवज्जामि मत्ति उठ्ठिदो जिम्ममत्तम्मि ॥२०॥
तस्मात्तथा ज्ञात्वात्मानं ज्ञायक स्वभावेन ।
परिवर्जयामि ममतामुपस्थिती निर्ममत्वे ।।२००५ अहमेष मोक्षाधिकारी ज्ञायकस्वभावात्मतत्त्वपरिज्ञामपुरस्सरममत्व निर्ममत्वहानोपादा नविधानेन कृत्यान्तरस्याभावात्सर्वारम्भेण शुद्धात्मनि प्रवर्ते । तथाहि-अहं हि तावत् ज्ञस्यक एव स्वभावेन, केवलज्ञायकस्य च सतो मम विश्वेनापि सहजज्ञेयज्ञायकलक्षण एवं सम्बन्धः न पुनरन्ये, स्वस्वामिलक्षणावयः सम्बन्धाः। ततो मम न क्वचनापि ममत्वं सर्वत्र निर्ममत्वमेव । अकस्य ज्ञायकभावस्य समस्तज्ञेय- भावस्वभावत्वात् प्रोत्कीर्ण लिखितनिखातको निहता जिजतसापतिमाणिनिम्मिलता क्रमप्रवृत्तानन्तभूतभवद्भाविधिचित्रपर्यायप्रारभारमगाधस्वभावं गम्भीर समस्तमपि द्रव्यजातमेकक्षणे एवं प्रत्यक्षयन्तं ज्ञेयज्ञायकलक्षणसंबन्धस्यानिवार्यत्वेनाशक्यविवेचनत्वादुपात्तवैश्वरूप्यमपि सहजानन्तशक्तिज्ञायकस्वभावेनैक्यरूप्यमनुज्झन्तमासंसारमनयैव स्थित्या स्थितं मोहेनान्यथाध्यवस्यमानं शुद्धात्मानमेष मोहमुत्खाय यथास्थितमेवातिनिःप्रकम्पः संप्रतिपचे । स्वयमेव भवतु चास्यैव दर्शनविशुद्धिमूलया सम्यग्ज्ञानोपयुक्ततयात्यन्तमव्याबाधस्तत्वात्साधोरपि साक्षारिसद्धभूतस्य स्वात्मनस्तथाभूतानां परमात्मनां च नित्यमेव तदेकपरायणत्वलक्षणो मावनमस्कारः ॥२००।
* शालिनी छन्द * जनं मानं ज्ञेयतत्त्वप्रणेत स्फोतं शब्दब्रह्म सम्यग्विगाह्म ।। संशुद्धात्मतम्यमात्रकवृत्या नित्यं युक्तः स्वीयसेऽस्माभिरेयम् ॥१०॥ ज्ञेयीकुर्वनम्जसासीमविश्वं ज्ञानीकुर्वन् शेयमान.न्तभेदम् । आत्मीकुर्वन् ज्ञानमात्मान्यभासि स्फूर्जत्यात्मा ब्रह्म संपच सद्यः ॥११॥
वसन्ततिलका छन्द वच्यानुसारि चरणं चरणानुसारि व्यं मिथो द्वयमिदं ननु सख्यपेक्षम् ।
तस्मान्मुमुक्षुरधिरोहतु मोक्षमार्ग तव्यं प्रतीत्य यदि या वरणं प्रतीत्य ॥१२॥ इति तस्वदीपिकायां प्रवशनसारवृत्तौ श्रीमदमतचन्द्रसूरिविरचितायां ज्ञेयतत्त्वप्रज्ञापनो नाम द्वितीयः श्रुतस्कन्धः समाप्सः ॥२॥
१-सहावेण (जा य०) । २. णिम्ममत्तम्हि (ज० वृ०)।