________________
६ ]
[ पवयणसारो अथ सूत्रावतार:
एस सुरासुरमणुसिंववंदिवंधोद'घाइकम्ममल । पणमामि वढमाणं तित्थं धम्मस्स कत्तारं ॥१॥ सेसे पुण तित्थयरे ससम्वसिद्धे विसुद्धसम्भावे । समणे य णाणदसणचरित्ततववोरियायारे ॥२॥ ते ते सव्वे समगं समगं पत्तेगमेव पत्तेगं । वंदामि य वट्टते अरहंते माणुसे खेत्ते ॥३॥ किच्चा अरहंताणं सिद्धाणं तह णमो गणहराणं । अज्झावयवरगाणं साहणं चैव सम्वेसि ॥४॥ तेसि विसुद्धदसणणाणपहाणासमं समासेज्ज। उवसंपयामि सम्म जत्तो णियाणसंपत्ती ॥५॥ (पणगं)
एष सुरासुरमनुष्येन्द्रवन्दितं धौतघातिकर्ममलम् । प्रणमामि वर्द्धमानं तीर्थ धर्मस्य कर्तारम् ।।१।। शेषान् पुनस्तीर्थ करान् ससर्वसिद्धान् विशुद्धसभावान् । श्रमणांश्च ज्ञानदर्शनचारित्रतपोबीर्याचारान् ॥२॥ तांस्तान् सर्वान् समकं समकं प्रत्येकमेव प्रत्येकम् । वन्दे च वर्तमानानहतो मानुषे क्षेत्रे ॥३॥ कृत्वाहद्भ्यः सिद्धेप्रस्तथा नमो गणधरेभ्यः । अध्यापकवर्गभ्यः साधुभ्यश्चैव सर्वेभ्यः ।।४।। तेषां विशुद्धदर्शनज्ञानप्रधानाश्रमं समासाद्य ।
उपसम्पद्ये साम्यं यतो निर्वाणसंप्राप्तिः ।।५।। (पञ्च कम्) एष स्वसंवेदनप्रत्यक्षदर्शनज्ञानसामान्यात्माहं सुरासुरमनुष्येन्द्रवन्दितत्वात्रिलोकैकगुरु, धौतघातिकर्ममलत्वाज्जगदनुग्रहसमर्थानन्तशक्तिपारमैश्वर्य, योगिनां तीर्थयात्तारणसमर्थ, धर्मकर्तृत्वाच्छुद्धस्वरूपवृत्तिविधातारम्, प्रवर्तमानतीर्थनायकत्वेन प्रथमत एव परमभट्टा. रकमहादेवाधिदेवपरमेश्वरपरमपूज्यसुगृहीतनामश्रीवर्धमानदेवं प्रणमामि ॥१॥ तदनुविशुद्धसद्भावत्वादुपात्तपाकोत्तीर्णजात्यकार्तस्वरस्थानीयशुद्धदर्शनज्ञानस्वभावान् शेषानतीततीर्थनायकान्, सर्वात सिद्धांश्च, ज्ञानदर्शनचारित्रतपोबीर्याचारयुक्तत्वात्संभावितपरम
१. धोय (ज. वृत)। २. पत्तेयमेव पत्तेयं (ज० वृ०)। ३. समासिज्ज (ज० वृ)।
-
--
-
--