SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २२२ ] [ पवयणसारो घूमते रहने पर भी मैं एक वही आत्मद्रव्य हूँ, इस तरह बूढ़ संस्कार के द्वारा जो अपने शुद्धात्मा में ठहरते हैं वे कर्मों के उदय से होने वाली मनुष्य पर्याय में परिणति से रहित अर्थात् रागद्वेष न करते हुए स्वसमयरूप होते हैं, ऐसा अर्थ है ॥६४॥ अथ द्रव्यलक्षणमुपलक्षयति 2 'अपरिच्चत्तसहावेणुप्पादव्ययधुवत्त संबद्ध' । गुणवं च सपज्जायं जं तं दव्वं ति बुच्चति ॥ ६५॥ अपरित्यक्तस्वभावेनोत्पादव्यय ध्रुवत्वसंबद्धम् । गुपदश्च सपर्यायं मत्तनिति जन्ति क I - इह खलु यदनारम्यस्वभावभेदमुत्पादव्ययीव्यत्रयेण गुणपर्यायद्वयेन च यल्लक्ष्यते तद्द्रव्यम् । तत्र द्रव्यस्य स्वभावोऽस्तित्व सामान्यान्ययः, अस्तित्वं हि वक्ष्यति द्विविधं, स्वरूपा - स्तित्वं सादृश्यास्तित्वं चेति । तत्रोत्पादः प्रादुर्भावः, व्ययः प्रच्यवनं श्रौष्यमवस्थितिः । गुणा विस्तारविशेषाः ते द्विविधाः सामान्यविशेषात्मकत्वात् । सत्रास्तित्वं नास्तित्वमेकत्वमन्यत्वं द्रव्यत्वं पर्यायत्वं सर्वगतत्वम सर्वगतत्वं सप्रदेशत्वमप्रदेशत्वं मूर्तत्वममूर्तस्वं सक्रियत्वमक्रियत्वं चेतनत्वमचेतनत्वं कर्तृत्वमकर्तृत्थं भोषतृत्थमभोक्तृत्वमगुरुलघुत्वं चेत्यादयः सामान्यगुणाः । अवगाहहेतुत्वं गतिनिमित्तता स्थितिकारणत्वं वर्तनायतनत्वं रूपादिमत्ता चेतनत्वमित्यादयो विशेषगुणाः । पर्याया आयतविशेषाः, ते पूर्वमेवोक्ताश्चतुविधाः । न ख तैरुत्पादादिभिर्गुणपर्याय सह द्रव्यं लक्ष्यलक्षणभेदेऽपि स्वरूपभेदमुपव्रजति, स्वरूपत एव द्रव्यस्य तथाविधत्वादुत्तरीयवत् । यथा खलुत्तरीयमुपात्तमलिनावस्थं प्रक्षालितममलादस्थयोत्पद्यमानं तेनोत्पादेन लक्ष्यते । न च तेन सह स्वरूपभेदमुपव्रजति स्वरूपत एव तथाविधत्वमवलम्बते । द्रयमपि समुपात्तप्राक्तनावस्थं समुचितबहिरङ्गसाधनसन्निधिसद्भावे विचित्रबहुतरावस्थानं स्वरूपकर्तृ करणसामर्थ्यस्वमावेनांत रङ्गसाधनतामुपागतेनानुग्रहीतमुत्तरावस्थयोत्पद्यमानं तेनोत्पादेन लक्ष्यते । न च तेन सह स्वरूपभेदमुपव्रजति, स्वरूपत एव तथाविधत्वमवलम्बते । यथा च तदेवोत्तरोयममलावस्थयोत्पद्यमानं मलिनावस्था स्ययमानं तेन व्ययेन लक्ष्यते । न च तेन सह स्वरूपभेदनुपखजति स्वरूपत एव तथाविधत्यमवलम्बते । तथा तदेव द्रव्यमप्युत्तरावस्थयोत्पद्यमानं प्राक्तनावस्थया व्ययमानं तेन श्ययेन लक्ष्यते । न च तेन सह् स्वरूपभेदमुपव्रजति स्वरूपत एव तथाविधत्वमवलम्बते । यथैव च तदेवोत्तरीयमेककालममलावस्थयोत्पद्यमानं मलिनावस्था व्ययमानम १. अपरिचत्तसहावं (ज० वृ० ) । २. संजुत्तं (ज० वृ० ) । ३. दव्व त्ति ( ज० बु० ) । 2
SR No.090360
Book TitlePravachansara
Original Sutra AuthorKundkundacharya
AuthorShreyans Jain
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages688
LanguageHindi
ClassificationBook_Devnagari, Story, & Religion
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy