________________
२१६ 1
। पदयणसारो सम्हा तस्स णमाई फिच्चा पिच्चंपि तम्मणो होज्ज ।
वोच्छामि संगहावो परमविणिच्याधिगमं ॥ सम्हा तस्स जमाई किवचा यस्मात्सम्यक्त्वं विना श्रमणो न भवति तस्मात्कारणात्तस्य सम्यचारित्रयुक्तस्य पूर्वोक्ततपोधनस्य नमस्यां नमस्क्रियां नमस्कारं कृत्वा पिच्चं पि तम्मणो होज्जं नित्पमपि तद्गतमना भूत्वा वोच्छामि वक्ष्याम्यहं कर्ता संगहादो संग्रहात्मज्ञेपासकाशात् । किं ? परमविणिच्छयाधिगमं परमार्थविनिश्चयाधिगम सम्यवत्वमिति परमार्थविनिश्चयाधिगमशब्धेन सम्यक्त्वं कथं भण्यत इति चेत्-परमोऽर्थः सर्ग: शासन माता पारमानरगार्थस्य विशेषेण संशयादिरहितत्वेन निश्चयः परमार्थनिश्चियरूपोऽधिगमः शङ्खाद्यष्टदोषरहितश्च य: परमार्थतोऽर्थावबोधो यस्मात्सम्यक्त्वात्तत् परमार्थविनिश्चयाधिगम। अथवा परमार्थ विनिश्चयोऽनेकान्तात्मकपदार्थ समूहस्तस्याधिगमो यस्मादिति ।
अथ पदार्थस्य द्रव्यगुणपर्यायस्वरूपं निरूपयति
अस्थो खलु बल्बमओ अर्थो ज्ञानविषयभूतः पदार्थः खलु स्फुटं द्रव्यमयो भवति । कस्मात् ? तिर्यक्सामान्योर्ध्वतासामान्य लक्षणेन द्रव्येण निष्पन्नत्वात् । तिर्यकसामान्योवंतासामान्यलक्षणं कथ्यतेएककाले नानाध्यक्तिगतोन्वयस्तिर्यसामान्यं भग्यते, तत्र दृष्टान्तो यथा-नानासिद्धजीवेषु सिद्धोध्यमित्यनुगताकार: सिद्धजातिप्रत्ययः । नानाकालेष्वेकव्यक्तिगतोन्वय उध्वंतासामान्य भण्यते । तत्र दृष्टान्तः यथा-य एव केवलज्ञानोत्पत्तिक्षणे मुक्तात्मा द्वितीयादिक्षणेष्वपि स एवेतिप्रतीतिः, अथवा नाना गोशरीरेषु गौरयं गौरयमिति गोजातिप्रतीतिस्तिर्यक्सामान्यं । यथैव चैकस्मिन् पुरुषे बालकुमाराद्यवस्थासु स एवायं देवदत्त इतिप्रत्यय ऊर्वतासामान्यम् ।
वरवाणि गुणप्पगाणि भणिवाणि द्रध्याणि गुणात्मकानि भणितानि, अन्वयिनो गुणा अथवा सहभुवो गुणा इति गुणलक्षणं । यथा अनन्तज्ञानसुखादिविशेषगुणेभ्यस्तथागुरुलघुकादिसामान्य गुणे भ्यश्चाभिन्नत्वाद्गुणात्मकं भवति सिद्धजीवद्रव्यं, तथैव स्वकीयविशेषसामान्यगुणेभ्यः सकाशादभिन्नरवात् सर्वद्रव्याणि गुणात्मकानि भवन्ति । तेहि पुणो पज्जाया त: पूर्वोक्तलक्षणव्यगुणश्च पर्याया भवन्ति, व्यतिरेकिणः पर्याया, अथवा क्रमभुवः पर्याया इति पर्यापलक्षणं । यर्थकस्मिन् मुक्तात्मद्रव्ये किञ्चिदूनचरमशरीराकारगतिमार्गणाविलक्षणः सिद्धगतिपर्यायः तथागुरुलघुकगुणषड्वृद्धिहानिरूपाः साधारणस्वभावगुणपर्यायाश्च, तथा सर्वद्रव्येषु स्वभावद्रव्यपर्यायाः स्वजातीयविभावद्रव्यपर्यायाश्च, तथैव स्वभावविभावगुणपर्यायाश्च "जेसि अत्थसहाओ" इत्यादिगाथायां, तथैव "भावा जीवादीया" इत्यादिगाथायां च पञ्चास्तिकाये पूर्व कथितक्रमेण यथासंभवं ज्ञातव्याः पज्जयमूढा हि परसमया यस्मादित्थंभूतद्रव्यगुणपर्यायपरिज्ञानमूढा अथवा नरकादिपर्यायरूपो न भवाम्यहमिति मेद वज्ञानमूढाश्च परसमया मिथ्यादृष्टयो भवन्तीति । तस्मादिषं पारमेश्वरी द्रव्यगुणपर्यायव्याख्या समीचीना भद्रा भवतीत्यभिप्राय: ।।६३।।