SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ षड्द्रव्य - पंचास्तिकायवर्णन कुंभकारनक्रे वा सर्वत्र चलनं भवति यथैव च मनोजस्पर्शनेन्द्रियविषयैकदेशे स्पर्शे कृते सति रसनेन्द्रियविषये च सर्वाङ्गने सुखानुभवो भवति, यथैव चैकदेशे सर्पदष्टे व्रणादिके वा सर्वाङ्गिन दुःखवेदना भवति तथा लोकमध्ये स्थितेपि कालद्रव्ये सर्वत्रालोकाकाशे परिणतिर्भवति । कस्मात् । अखंडेकद्रव्यत्वात् । कालद्रव्यमन्यद्रव्याणां परिणति सहकारिकारणं भवति । कालस्य किं परिणति सहकारिकारणमिति । आकाशस्याकाशाधारवत् ज्ञानादित्यरत्नप्रदीपानां स्वपरप्रकाशकश्च कालद्रव्यस्य परिणतेः काल एव सहकारिकारणं भवति । अथ मतं यथा कालद्रव्यं स्वपरिणते: स्वयमेव सहकारी तथाशेषद्रव्याण्यपि स्वपरिणतेः स्वयमेव सहकारिकारणानि भविष्यन्ति कालद्रव्येण किं प्रयोजनमिति । परिहारमाह-सर्वद्रव्यसाधारणपरिणति सहकारित्वं कालस्यैव गुणः । कथमिति चेत् ? आकाशस्य सर्वसाधारणावकाशदानमिव धर्मद्रव्यस्य सर्वसाधारणगतिहेतुत्वमिव तथा धर्मस्य स्थितिहेतुत्वमित्र । तदपि कथमिति चेत् ? अन्यद्रव्यस्य गुणोऽन्यद्रव्यस्य कर्तुं नायाति संकरव्यतिकरदोषप्राप्तेः । ८४ किंच यदि सर्वद्रव्याणि स्वकीयस्वकीयपरिणतेरुपादानकारणवत् सहकारिकारणान्यपि भवन्ति तर्हि गतिस्थित्यवगाहपरिणतिविषये धर्माधर्माकाशद्रव्यैः सहकारिकारणभूतैः किं प्रयोजनं गतिस्थित्यवगाहाः स्वयमेव भविष्यति । तथा सति किं दूषणं जीवपुद्गलसंज्ञे द्वे एक द्रव्ये । स चागमविरोधः । अत्र विशुद्धदर्शनज्ञानस्वभावस्य शुद्धजीवास्तिकायस्थालाभेतीतानंतकाले संसारचक्रे श्रमितोऽयं जीवः ततः कारणाद्वीतरागानिर्विकल्पसमाधौ स्थित्वा समस्तरागादिरूपसंकल्पविकल्पकल्लोलमालापरिहारलेन जीवन् स एव निरंतरं ध्यातव्य इति भावार्थः ॥ २४ ॥ इति निश्चयकालव्याख्यानमुख्यत्वेन गाथाद्वयं गतं । हिन्दी तात्पर्यवृत्ति गाथा - २४ अन्वय सहित सामान्यार्थ - ( ववगदपणवण्णरसो) जो पाँच वर्ण पाँच रस्से रहित है ( ववगददोगंअधगुफासो य) व जो दो गंध व आठ स्पर्शसे रहित है । ( अगुरुलहुगो ) अगुलघु गुणके द्वारा षट्- गुणी हानि वृद्धिसहित है ( अमुत्तो ) अमूर्तिक होने से सूक्ष्म है इन्द्रिय गोचर नहीं है ( वट्टणलक्खो य ) तथा जो वर्तनालक्षण है ( कालोत्ति ) ऐसा यह कालद्रव्य है । विशेषार्थ - यह अमूर्तिक कालद्रव्य सर्व द्रव्योंके परिणमनमें निमित्त है। जैसे शीतकालमें स्वयं पढ़ते हुए पुरुषको अग्नि सहकारी कारण है या स्वयं घूमते हुए कुम्भकारके चाकको नीचेकी शिला सहकारी कारण है तैसे ही निश्चयसे स्वयं परिणमन करते हुए सर्व द्रव्योंके परिणमनमें बाहरी निमित्त कारण वर्तनालक्षण धारी काल द्रव्य है । यही निश्चय काल है ।
SR No.090326
Book TitlePanchastikay
Original Sutra AuthorKundkundacharya
AuthorShreelal Jain Vyakaranshastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages421
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy