________________
घड्द्रव्य-पंचास्तिकायवर्णन तथाहि-अस्तीत्यादिसप्तप्रश्नेषु कृतेषु सत्सु स्यादस्तीत्यादिसप्तप्रकारपरिहारवशेनेत्यर्थः । इति प्रमाणसप्तभंगी। ___एकमपि द्रव्यं कथं सप्तभङ्ग्यात्मकं भवतीति प्रश्ने परिहारमाहुः । यथै कोपि देवदत्तो गौणमुख्यविवक्षावशेन बहुप्रकारो भवति । कथमिति चेत? पुत्रापेक्षया पिता भण्यते, सोपि स्वकीयपित्रापेक्षया पुत्रो भण्यते, मातुलापेक्षया भागिनेयो भण्यते स एव भागिनेयापेक्षया मातुलो भण्यते, भार्यापेक्षया भर्ता भण्यते भग्न्यिपेक्षया भ्राता भण्यते विपक्षापेक्षया शत्रुर्भपयते इष्टापेक्षया मित्रं भण्यत इत्यादि तथैकमपि द्रव्यं गौणमुख्यविवक्षावशेन सप्तभंग्यात्मकं भवति नास्ति दोष इति सामान्यव्याख्यानं । सूक्ष्मव्याख्यानविवक्षायां पुन: सदेकनित्यादिधर्मेषु मध्ये एकैकधर्म निरुद्ध सप्तभंगी वक्तव्या। कमिति चेत् ? स्यादस्ति, स्यान्नास्ति, स्यादस्तिनास्ति स्यादवक्तव्यमित्यादि । स्यादेकं स्यादनेकं स्यादेकानेक स्यादवक्तव्यमित्यादि । स्यान्नित्यं स्यान्नितयानित्यं स्यादवक्तव्यमित्यादि । तत्केन दृष्टान्तेनेति कथ्यते-यथैकोपि देवदत्त: स्यात्पुत्रः स्यादपुत्रः स्यात्पुत्रापुत्र: स्यादवक्तव्य: स्यात्पुत्रोऽवक्तव्य: स्यादपुत्रोऽवक्तव्य: स्यात्पुत्रापुत्रोऽवक्तव्यश्चेति सूक्ष्मव्याख्यानविवक्षायां सप्तभंगीव्याख्यानं ज्ञातव्यं । स्यादस्ति द्रव्यमिति पठनेन वचनेन प्रमाणसप्तभंगी ज्ञायते । कमित्ति चेत् ? स्यादस्तीति सकलवस्तुग्राहकत्वात्प्रमाणवाक्यं स्यादस्त्येव द्रव्यमिति वस्त्वेकदेशग्राहकत्वात्रयवाक्यं । तथाचोक्तं । सकलादेशः प्रमाणाधीनो विकलादेशो नयाधीन इति । अस्ति द्रव्यमिति दुःप्रमाणवाक्यं अस्त्येव द्रव्यमिति दुर्नयवाक्यं । एवं प्रमाणादिवाक्यचतुष्टयव्याख्यानं बोद्धव्यं । अत्र सप्तभंग्यात्मकं षड्व्व्ये षु मध्ये शुद्वजीवास्तिकायाभिधानं शुद्धात्मकद्रव्यमुपादेयमिति भावार्थ: ।।१४।। इत्येक्सूत्रेण सप्तभंगीव्याख्यानं । एवं चतुर्दशगाथासु मध्ये स्थलपंचकेन प्रथमसप्तकं
गतं ।
हिन्दी तात्पर्यवृत्ति गाथा-१४ उत्थानिका-आगे सर्व शंकाओके दूर करनेके लिये प्रमाण सप्तभंगीका स्वरूप कहते हैं।
अन्वयसहित सामान्यार्थ-( दव्वं ) द्रव्य (खु) प्रगटपने { आदेसवर्सेन ) विवक्षा या प्रश्नोत्तरके कारणसे ( सत्तभंग) सात भेदरूप ( संभवदि) होता है जैसे ( सिय अस्थि ) स्यात् अस्ति [णस्थि] स्यात् नास्ति, [उहयं] स्यात् उभय अर्थात् अस्तिनास्ति ( अन्यत्तव्यं) स्यात् अवक्तव्यं [ पुणो य] तथा [तत्तिदयं ] अवक्तव्य तीनरूप अर्थात् स्यात् अस्ति अवक्तव्यं, स्यात् नास्ति अवक्तव्य, स्यात् अस्ति नास्ति अवक्तव्य ।
विशेषार्थ-अन्य ग्रन्थमें कहा है- "एकस्मिन्नविरोधेन प्रमाणनयवाक्यतः । सदादिकल्पना या च सप्तभंगी च सा मता'' अर्थ- एक ही पदार्थमें बिना किसी विरोधके प्रमाण व नयके वाक्य से सत् आदिकी कल्पना करना सो सप्तभंगी कही गई है ।। जैसे (१) स्यात् अस्ति