SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ घड्द्रव्य-पंचास्तिकायवर्णन तथाहि-अस्तीत्यादिसप्तप्रश्नेषु कृतेषु सत्सु स्यादस्तीत्यादिसप्तप्रकारपरिहारवशेनेत्यर्थः । इति प्रमाणसप्तभंगी। ___एकमपि द्रव्यं कथं सप्तभङ्ग्यात्मकं भवतीति प्रश्ने परिहारमाहुः । यथै कोपि देवदत्तो गौणमुख्यविवक्षावशेन बहुप्रकारो भवति । कथमिति चेत? पुत्रापेक्षया पिता भण्यते, सोपि स्वकीयपित्रापेक्षया पुत्रो भण्यते, मातुलापेक्षया भागिनेयो भण्यते स एव भागिनेयापेक्षया मातुलो भण्यते, भार्यापेक्षया भर्ता भण्यते भग्न्यिपेक्षया भ्राता भण्यते विपक्षापेक्षया शत्रुर्भपयते इष्टापेक्षया मित्रं भण्यत इत्यादि तथैकमपि द्रव्यं गौणमुख्यविवक्षावशेन सप्तभंग्यात्मकं भवति नास्ति दोष इति सामान्यव्याख्यानं । सूक्ष्मव्याख्यानविवक्षायां पुन: सदेकनित्यादिधर्मेषु मध्ये एकैकधर्म निरुद्ध सप्तभंगी वक्तव्या। कमिति चेत् ? स्यादस्ति, स्यान्नास्ति, स्यादस्तिनास्ति स्यादवक्तव्यमित्यादि । स्यादेकं स्यादनेकं स्यादेकानेक स्यादवक्तव्यमित्यादि । स्यान्नित्यं स्यान्नितयानित्यं स्यादवक्तव्यमित्यादि । तत्केन दृष्टान्तेनेति कथ्यते-यथैकोपि देवदत्त: स्यात्पुत्रः स्यादपुत्रः स्यात्पुत्रापुत्र: स्यादवक्तव्य: स्यात्पुत्रोऽवक्तव्य: स्यादपुत्रोऽवक्तव्य: स्यात्पुत्रापुत्रोऽवक्तव्यश्चेति सूक्ष्मव्याख्यानविवक्षायां सप्तभंगीव्याख्यानं ज्ञातव्यं । स्यादस्ति द्रव्यमिति पठनेन वचनेन प्रमाणसप्तभंगी ज्ञायते । कमित्ति चेत् ? स्यादस्तीति सकलवस्तुग्राहकत्वात्प्रमाणवाक्यं स्यादस्त्येव द्रव्यमिति वस्त्वेकदेशग्राहकत्वात्रयवाक्यं । तथाचोक्तं । सकलादेशः प्रमाणाधीनो विकलादेशो नयाधीन इति । अस्ति द्रव्यमिति दुःप्रमाणवाक्यं अस्त्येव द्रव्यमिति दुर्नयवाक्यं । एवं प्रमाणादिवाक्यचतुष्टयव्याख्यानं बोद्धव्यं । अत्र सप्तभंग्यात्मकं षड्व्व्ये षु मध्ये शुद्वजीवास्तिकायाभिधानं शुद्धात्मकद्रव्यमुपादेयमिति भावार्थ: ।।१४।। इत्येक्सूत्रेण सप्तभंगीव्याख्यानं । एवं चतुर्दशगाथासु मध्ये स्थलपंचकेन प्रथमसप्तकं गतं । हिन्दी तात्पर्यवृत्ति गाथा-१४ उत्थानिका-आगे सर्व शंकाओके दूर करनेके लिये प्रमाण सप्तभंगीका स्वरूप कहते हैं। अन्वयसहित सामान्यार्थ-( दव्वं ) द्रव्य (खु) प्रगटपने { आदेसवर्सेन ) विवक्षा या प्रश्नोत्तरके कारणसे ( सत्तभंग) सात भेदरूप ( संभवदि) होता है जैसे ( सिय अस्थि ) स्यात् अस्ति [णस्थि] स्यात् नास्ति, [उहयं] स्यात् उभय अर्थात् अस्तिनास्ति ( अन्यत्तव्यं) स्यात् अवक्तव्यं [ पुणो य] तथा [तत्तिदयं ] अवक्तव्य तीनरूप अर्थात् स्यात् अस्ति अवक्तव्यं, स्यात् नास्ति अवक्तव्य, स्यात् अस्ति नास्ति अवक्तव्य । विशेषार्थ-अन्य ग्रन्थमें कहा है- "एकस्मिन्नविरोधेन प्रमाणनयवाक्यतः । सदादिकल्पना या च सप्तभंगी च सा मता'' अर्थ- एक ही पदार्थमें बिना किसी विरोधके प्रमाण व नयके वाक्य से सत् आदिकी कल्पना करना सो सप्तभंगी कही गई है ।। जैसे (१) स्यात् अस्ति
SR No.090326
Book TitlePanchastikay
Original Sutra AuthorKundkundacharya
AuthorShreelal Jain Vyakaranshastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages421
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy