SearchBrowseAboutContactDonate
Page Preview
Page 37
Loading...
Download File
Download File
Page Text
________________ पंचास्तिकाय प्राभृत निश्चयनयेन स्वकीयदेहान्तर्गतं शुद्धजीवास्तिकायसंज्ञं जीवद्रव्यमेवोपादेयमिति भावार्थः । यत्पुनरन्येषामेकान्तवादिनां रागद्वेषमोहसहिततानामपि वायुधारणादिसर्वशून्यध्यानव्याख्यानमाकाशध्यान वा तत्सर्वं निरर्थकमेव । संकल्पविकल्पयोर्भेद: कथ्यते-बहिर्द्रव्ये चेतनाचेतनमिश्रे ममेदमित्यादिपरिणाम: “संकल्प:'" अभ्यन्तरे सुख्यहं दु:ख्यहं इत्यादिहर्षविषादपरिणामो “विकल्प' इति संकल्पविकल्पलक्षणं ज्ञातव्यं वीतरागनिर्विकल्पसमाधौ वीतरागविशेषणमनर्थकमित्युक्ते सति परिहारमाह-आर्तरौद्ररूपस्य विषयकषाय-निमित्तस्याशुभध्यानस्य वर्जनार्थत्वात् हेतुहेतुमद्भावव्याख्यानत्वाद्वा कर्मधारयसमासत्वाद्वा भावनाग्रन्थे पुनरुक्तदोषाभावत्वाद्वा स्वरूपस्य विशेषणतवाद्वा दृढीकरणार्थत्वाद्वा। एवं वीतरागनिर्विकल्पसमाधि-व्याख्यानकाले सर्वत्र ज्ञातव्यं । वीतरागसर्वज्ञनिर्दोषिपरमात्मशब्दादिष्वप्यनेनैव प्रकारेण पूर्वपक्षे कृते यथासंभवं परिहारो दातव्यः इति । यत एवं कारणाद्वीतरागस्तत एव कारणानिर्विकल्पसमाधिः इति हेतुहेतुमद्भावशब्दस्यार्थः ॥७॥ संकरव्यतिकरदोषपरिहारेण गाथा गता एवं स्वतन्त्रगाथाद्वयेन तृतीयस्थलं गतं । इति प्रथममहाधिकारे सप्तगाथाभिः स्थलत्रयेण समयशब्दार्थपीठिकाविधान: प्रथमोन्तराधिकार: समाप्तः ।। "अथ सत्ता सन्चपयत्था'' इमां गाथामादिं कृत्वा पाठक्रमेण चतुर्दशगाथाभिर्जीवपुद्गलादिद्रव्यविवक्षारहित्वेन सामान्यद्रव्यपीठिका कथ्यते । तत्र चतुर्दशगाथासु मध्ये सामान्यविशेषसत्तालक्षणकथनरूपेण "सत्ता सव्वपयत्था'' इत्यादि प्रथम नाथासूत्रोक, सदनातरं सत्ताद्रव्ययोरभेदो द्रव्यशब्दव्युत्पत्तिकथनमुख्यत्वेन च “दवियदि'' इत्यादि द्वितीयस्थले सूत्रमेकं, अथ द्रव्यस्य लक्षणत्रयसूचनरूपेण “दव्वं सलक्खणीयमित्यादि" तृतीयस्थले सूत्रमेकं, तदनन्तरं लक्षणद्वयप्रतिपादरूपेण “उप्पत्ती य विणासो' इत्यादि सूत्रमेकं, अथ तृतीयलक्षणकथनेन "पज्जयरहिायं' इत्यादि गाथाद्वयं । एवं समुदायेन गाथात्रयेण द्रव्यार्थिकपर्यायार्थिकपरस्परसापेक्षनयद्वयसमर्थनमुख्यतया चतुर्थस्थलं । अथ पंचमस्थले सर्वैकान्तमतनिराकरणार्थं प्रमाणसप्तभनव्याख्यानमुख्यत्वेन "सियअत्थि' इत्यादि सूत्रमेकं । एवं चतुर्दशगाथासु मध्ये स्थलपंचकसमुदायेन प्रथमसप्तकं गतं, अथ द्वितीयसप्तकमध्ये प्रथमस्थले बौद्धमतैकान्तनिराकरणा) द्रव्यस्थापनमुख्यत्वेन "भावस्स णत्थि णासो'' इत्याद्यधिकारगाथासूत्रमेकं तस्य विवरणार्थं गाथाचतुष्टयं, तत्र गाथाचतुष्टयमध्ये तस्यैवाधिकारसूत्रस्य द्रव्यगुणपर्यायव्याख्यानमुख्यत्वेन 'भावा जीवादीया' इत्यादि सूत्रमेकं, अथ मनुष्यादिपर्यायस्य विनाशोत्पादकत्वेपि ध्रुवत्वेन विनाशो नास्तीति कथनरूपेण 'मणुअत्तणेण' इत्यादि सूत्रमेकं अथ तस्यैव दृढीकरणार्थ 'सो चेव' इत्यादि सूत्रमेंक, अथैव द्रव्यार्थिकनयेन सदसतोर्विनाशोत्पादौ न स्त: पर्यायार्थिकनयेन पुनर्भवत इति नयद्वयव्याख्यानोपसंहाररूपेण ‘एवं सदो विणासो' इत्यादि उपसंहारगाथासूत्रमेकं इति द्वितीयस्थले समुदायेन गाथाचतुष्टयं, तदनन्तरं तृतीयस्थले सिद्धस्य पर्यायार्थिकनयेनासदुत्पादमुख्यतया "णाणावरणादीया' इत्यादि सूत्रमेवं,अथैव चतुर्थस्थले द्रव्यरूपेण नित्यत्वेपि पर्यायार्थिकनयेन संसारिजीवस्य देवत्वाद्युत्पादव्ययकर्तृत्वव्याख्यानोपसंहारमुख्यत्वेन द्रव्यपीठिकासमाप्त्यर्थ वा “एवं भावं"
SR No.090326
Book TitlePanchastikay
Original Sutra AuthorKundkundacharya
AuthorShreelal Jain Vyakaranshastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages421
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy