SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३६२ नवपदार्थ-मोक्षमार्ग वर्णन आवरणके प्रक्षीणपनेके कारण, अनंत ज्ञानदर्शनसे सम्पूर्ण शुद्धज्ञानचेतनामयपनेके कारण तथा अतीन्द्रियपनेके कारण जो अन्यद्रव्यके संयोग से रहित है और शुद्ध स्वरूपमें अविचलित चैतन्यवृत्तिरूप होनेके कारण जो कथंचित् 'ध्यान' नामके योग्य है ऐसा आत्माका स्वरूप ( आत्माकी निज दशा) पूर्वसंचित कर्मोको शक्तिका शातन ( क्षीणता ) अथवा उनका पतन ( नाश ) देखकर, निर्जराके हेतुरूपसे वर्णन किया जाता है ।।१५२।। सं० ता०-अथ वेदनीयादिशेषाघातिकर्मचतुष्टयविनाशरूपायाः सकलद्रव्यनिर्जराया: कारणं ध्यानस्वरूपं कथयति,-- "दंसण'' इत्यादि पदखंडनरूपेण व्याख्यान क्रियते । दंसण-णाण-दर्शनज्ञानाभ्यां कृत्वा, समग्गं-परिपूर्णं । किं ? झाणं-ध्यानं । पुनरपि किविशिष्टं । णो आणदव्वसंजुत्त-अन्यद्रव्यसंयुक्तं न भवति । इत्थंभूतं ध्यानं, जायदि णिज्जरहेदू-निर्जराहेतुर्जायते । कस्य । सहावसहिदस्स माहुस्सशुद्धस्वभावसहितस्य साधोरिति । तथाहि । तस्य पूर्वोक्तभावमुक्तस्य केवलिनो निर्विकारपरमानंदैकलक्षणस्वात्मोत्थसुखतृप्तत्वाद्व्यावृत्तहर्षविषादरूपसांसारिकसुखदुःखविक्रियस्य केवलज्ञानदर्शनावरणविनाशादसहायकेवलज्ञानदर्शनसहितं सहजशुद्धचैतन्यपरिणतत्वादिन्द्रियव्यापारादिबहिर्द्रव्यालंबनाभावाच्च परद्रव्यसंयोगरहितं स्वरूपनिश्चलत्वादविचलितचैतन्यवृत्तिरूपं च यदात्मन: स्वरूपं तत्पूर्वसंचितकर्मणां ध्यानकार्यभूतं स्थितिविनाशं गलनं च दृष्ट्वा निर्जरारूपध्यानस्य कार्यकारणमुपचोपचारेण ध्यानं भण्यत इत्यभिप्रायः ।। अत्राह शिष्यः-इदं परद्रव्यालंबनरहितं ध्यान केलिनां भवतु । कस्मात् ? केवलिनामुपचारेण ध्यानमिति वचनात् । चारित्रसारादौ ग्रंथ भणितमास्ते 'छद्मस्थतपोधना: द्रव्यपरमाणुं भावपरमाणुं वा ध्यात्वा केवलाज्ञानमुत्पादयंति' तत्परद्रव्यानंबनरहितं कथं घटत इति । परिहारमाह-द्रव्यपरमाणुशब्देन द्रव्यसूक्ष्मत्वं ग्राह्य, भावपरमाणुशब्देन च भावसूक्ष्मत्वं, न च पुद्गलपरमाणुः । इदं व्याख्यानं सर्वार्थसिद्धिटिप्पणके भणितमास्ते । अस्य संवादवाक्यस्य विवरणं क्रियते। द्रव्यशब्देनात्मद्रव्यं ग्राह्यं तस्य तु परमाणुः । परमाणुरिति कोर्थ: ? रागाधुपाधिरहिता सूक्ष्मावस्था । तस्याः सूक्ष्मत्वं कथमिति चेत् ? निर्विकल्पसमाधिविघयादिति द्रव्यपरमाणुशब्दस्य व्याख्यानं । भावशब्देन तु तस्यैवात्मद्रव्यस्य स्वसंवेदनज्ञानपरिणामा ग्राह्यः तस्य भावस्य परमाणुः । परमाणुरिति कोर्थः रागादिविकल्परहिता सूक्ष्मावस्था । तस्याः सूक्ष्मत्वं कथमिति चेत् ? इंद्रियमनोविकल्पाविषयत्वादिति भावपरमाणुशब्दस्य व्याख्यानं ज्ञातव्यं । अयमत्र भावार्थ: प्राथमिकानां चित्तस्थिरीकरणार्थ विषयाभिलाषरूपध्यानवंचनार्थं च परंपरया मुक्तिकारणं पंचपरमेष्ठ्यादि परद्रव्यं ध्येयं भवति दृढतरध्यानाभ्यासेन चित्ते स्थिरे जाते सति निजशुद्धात्मस्वरूपमेव ध्येयं । तथा चोक्तं श्रीपूज्यपादस्वामिभि: निश्चयध्येयव्याख्यानं । "आत्मानमात्मा आत्मन्येवात्मनासौ क्षणमुपजनयन्सन् स्वयंभूः प्रवृत्तः' । अस्य व्याख्यानं क्रियते । आत्मा कर्ता आत्मानं कर्मतापन्नं आत्मन्येवाधिकरणभूते अत्माना करणभूतेन असौ प्रत्यक्षीभूतात्मा क्षणमन्तमुहूर्तमुपजनयन धारयन् सन् स्वयंभूः प्रवृत्तः सर्वज्ञो जात इत्यर्थः । इति परस्परसापेक्षनिश्चयव्यवहारनयाभ्यां साध्यसाधकभावं ज्ञात्वा ध्येयविषये विवादो न कर्तव्य: ।।१५२।।
SR No.090326
Book TitlePanchastikay
Original Sutra AuthorKundkundacharya
AuthorShreelal Jain Vyakaranshastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages421
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy