SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ पंचास्तिकार्य प्राभृत है अतः अणुमहन्त हैं। इसलिये इनमें कायपना कहा गया । एक प्रदेशी परमाणुको कायपना इस अपेक्षासे है कि वे परमाणु अपने स्निग्ध या रूक्ष गुणके कारणसे स्कंध बनने के कारण है इसलिये उपयार या व्यवहार से उनको कायपना है। कालाणुओंमें परस्पर बंधके कारण स्निग्ध या रूक्षपनेकी शक्ति नहीं है इसलिये उपचारसे भी उनमें कायपना नहीं है। उनमें इस शक्तिका अभाव इसीलिये है कि सर्व कालाणु अमूर्तीक हैं। इस तरह इस गाथामें पाँच अस्तिकायों के विशेष नाम व उसका अस्तित्व व कायपना बताया गया । इस सूत्रसे यह तात्पर्य लेना चाहिये कि इनमें एक शुद्ध जीवास्तिकाय ही ग्रहण करने योग्य है ।।४।। समय व्याख्या गाथा-५ अत्र पंचास्तिकायानामस्तित्वसंभवप्रकारः कायत्वसंभवप्रकारचोक्तः । जेसिं अस्थि सहाओ गुणेहिं सह पज्जएहि विविहेहिं । ते होंति अस्थिकाया णिप्पण्णं जेहिं तइलुक्कं ।।५।। येषामस्ति स्वभाव: गुणैः सह पर्ययैर्विविधैः । ते भवन्त्यस्तिकायाः निष्पन्नं यैस्त्रैलोक्यम् ।।५।। अस्ति ह्यस्तिकायानां गुणैः पर्यायैश्च विविधै सह स्वभावो आत्मभावोऽनन्यत्वम् । वस्तुनो विशेषा हि व्यतिरेकिण: पर्याया गुणस्तु त एवान्वयिनः । तत एकेन पर्यायेण प्रलीयमानस्यान्योनोपजायमानस्यान्वयिना गुणेन ध्रौव्यं विभ्राणस्यैकस्याऽपि वस्तुनः समुच्छेदोत्पादध्रौव्यलक्षणमस्तित्वमुपपद्यत एव । गुणपर्यायैः सह सर्वथान्यत्वे त्वन्यो विनश्यत्यन्य: प्रादुर्भवत्यन्यो ध्रुवत्वमालम्बत इति सर्व विप्लवते । तत: साध्वस्तित्वसंभवप्रकारकथनम् । कायत्वसंभवप्रकारस्त्वयम्पदिश्यते । अक्यविनो हि जीवपुगलधर्माधर्माकाशपदार्थास्तेषामवयवा अपि प्रदेशाख्या: परस्परव्यतिरेकित्वात्पर्याया: उच्यन्ते । तेषां तैः सहानन्यत्वे कायवसिद्धिरुपपत्तिमती। निरवयवस्यापि परमाणो: सावयवत्वशक्तिसद्भावात् कायवसिद्धिरनपवादा । न चैतदाशयम्-पुद्गलादन्येषाममूर्तत्वादविभाज्यानां सावयवत्वकल्पनमन्याय्यम। दश्यत एवाविभाज्येऽपि विहायसीदं घटाकाशमिदमघटाकाशमिति विभागकल्पनम् । यदि तत्र विभागो न कल्पेत तदा यदेव घटाकाशं तदेवाघटाकाशं स्यात् । न च तदिष्टम् । ततः कालाणुभ्योऽन्यत्र सर्वेषां कायत्वाख्यं सावयवत्वमवसेयम् । त्रैलोक्यरूपेण निष्पनत्वमपि तेषामस्तिकायत्वसाधनपरमुपन्यस्तम् । तथा च-त्रयाणामूर्ध्वाऽधोमध्यलोकानामुत्पादत्र्ययध्रौव्यबन्तस्तद्विशेषात्मका भावा भवन्तस्तेषां मूलपदार्थानां गुणपर्याययोगपूर्वकमस्तित्वं साधयन्ति । अनुमीयते च धर्माधर्माकाशानां प्रत्येकमूर्ध्वाऽधोमधलोकाविभागरूपेण परिणमनात्वायत्वाख्यां सावयवत्वम् । जोवानामपि
SR No.090326
Book TitlePanchastikay
Original Sutra AuthorKundkundacharya
AuthorShreelal Jain Vyakaranshastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages421
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy