SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ पंचास्तिकाय प्रामृत तथाचोत्तं-"शेयोमार्गस्य संसिद्धिः प्रसादात्परमेष्ठिनः। इत्याहुस्तद्गुणस्तोत्र शास्त्रादौ मुनिपुंवगवाः ।।१७।।" "अभिमतफलसिद्धेरभ्युपाय: सुबोधः, स च भवति सुशास्त्रात्तस्य चोत्पत्तिराप्तात् । इति भवति स पूज्यस्तत्प्रसादात्प्रबुद्धैर्न हि कृतमुपकारं साधवो विस्मरन्ति ॥१८॥" इति संशेग मंगलं व्याख्यासम् । निमित्तं कथ्यते-निमित्तं कारणं वीतरागसर्वज्ञदिव्यध्वनिशास्त्रे प्रवृत्ते किं कारणं ? भव्यपुण्यप्रेरणात् । तथा चोक्तं "छदव्वणवपयत्थे सुयणाणाइच्चदिव्बतेएण। पस्संतु भव्यजीवा इय सुअरविणो हवे उदओ।।१९।।" अथ प्राभृतग्रंथे शिवकुमारमहाराजो निमित्तं अन्यत्र द्रव्यसंग्रहादौ मोमाश्रेष्ठ्यादि ज्ञातव्यं । इति संक्षेपेण निमित्तं कथितं । इदानीं हेतुव्याख्यानं । हेतुः फलं, हेतुशब्देन फलं कथं भण्यत इति चेत्, फलकारणात्फलमुपचारात्। तच्च फलं द्विविधं प्रत्यज्ञपरोक्षभेदात् । प्रत्यक्षफलं द्विविधं साक्षात्परंपराभेदेन । साक्षात्प्रत्यक्षं किं ? अज्ञानविच्छित्ति: ज्ञानोत्पत्त्यासंख्यातगुणश्रोणिकर्मनिर्जरा इत्यादि। परंपराप्रत्यक्षं किं ? शिष्यप्रतिशिष्यपूजाप्रशंसाशिष्यनिष्पत्यादि । इति संक्षेपेण प्रत्यज्ञफलं। इंदानी परोक्षफलं भण्यते। तच्च द्विविध-अभ्युदयनिश्रेयससुखभेदात् । अभ्युदयसुखं कथ्यते । राजाधिराज, महाराज, अर्थमंडलीक, मंडलीक, महामंडलीक, अर्धचक्रवर्ति, सकलचक्रवर्ति, इन्द्र, गणधर देव, तीर्थकर-परमदेव कल्याणत्रय पर्यतमिति। राजादिलक्षणं कथ्यते-कोटि प्राकारि अष्टादशश्रेणीनां पतिः स एव मुकुटधरः कथ्यते मुकुटबद्धपंचशताधिपतिरधिराजा, तस्माद् द्विगुणद्विगुणक्रमेण सकलचक्रिपर्यन्त इति अभ्युदयसुखं । अथ निश्रेयससुखं कथ्यते-अर्हतपदं कथ्यते “खविदघणाघाइकम्मा चउतीसातिसया पंचकल्लाणा । अट्ठ महापाडिहेरा अरहंता मंगलं मज्झं ।।२०।। सिद्धपदं कथ्यते "मूलुत्तरपयडीणं वंधोदयसत्तकम्मउम्मुक्का। मंगलभूदा सिद्धा अट्ठगुणातीदसंसारा ।।२१।। इति संक्षेपेण अभ्युदयनिश्रेयससुखं कथितं । इदमत्र तात्पर्य यः कोपि वीतरागसर्वज्ञप्रणीतपंचास्तिकायसंग्रहादिकं शास्त्रं पठति श्रद्धत्ते तथैव च भावयति स च इत्थंभूतं सुखं प्राप्नोतीत्यर्थः । इदानी परिमाणं प्रतिपाद्यते । तच्च द्विविध-ग्रंथार्थभेदात् । ग्रन्थपरिमाणं ग्रन्थपरिसंख्या यथासंभवं, अर्थपरिमाणमनन्तमिति नाम द्विधा अन्वर्थयदृच्छभेदेन । अन्वर्थनाम किं ? यादृशं नाम तादृशोर्थः यथा तपतीति तपन आदित्य इत्यर्थः, अथ च पंचास्तिकाया यस्मिन् शास्त्रे ग्रन्थे स भवति, पंचास्तिकायः, द्रव्याणां संग्रहो द्रव्यसंग्रह इत्यादि। यदृच्छं काष्ठाभारेणेश्वर इत्यादि । कर्ता कथ्यते स च त्रिधा । मूलतन्त्रकर्ता उत्तरतन्त्रकर्ता उत्तरोत्तरतन्त्रकर्ताभेदेनेति । मूलकर्ता कालापेक्षया श्रीवर्धमानस्वामी अष्टादशदोषरहितोऽनन्तचतुष्टयसंपन्न इति, उत्तर कर्ता श्रीगौतमस्वामी गणधरदेवश्चतुनिधरः सप्तर्द्धिसंपन्नश्श, उत्तरोत्तरा कारो बहवो यथासंभवं । कर्ता किमर्थं कथ्यते ? कर्तृप्रामाण्याद्वचनप्रमाणमिति ज्ञापनार्थ । इति संक्षेपेण मंगलाघधिकारषट्कं प्रतिपादितं व्याख्यातं एवं मंगलार्थमिष्टदेवतानमस्कारगाथा गता ||१॥
SR No.090326
Book TitlePanchastikay
Original Sutra AuthorKundkundacharya
AuthorShreelal Jain Vyakaranshastri
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages421
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy