________________
XXXXXXXXXXXXXXX
॥ २६४ ॥ युग्मम् ॥ यशो नश्यति मा याति गुहायां कापि सत्वरम् । गौवं ale मालिन्यभवावg ॥ २६५ ॥ सङ्गो । न कार्यः परवल्लभायाः सत्कीर्तिकामैर्मरणेऽपि जातु । सहस्रयोनिः सुरनायकोऽभूत श्रीगौतमस्त्रीपरिघर्षणेन ॥ २६६ ॥ पमोत्तरोऽत्रनिपतिखिदशाङ्गनामैराशतैरपि युतः परदारकामी । पाञ्चालनाथतनयापरिघर्षणेन नाशत्वमाप नृपकीचकोऽपि तद्वत् ॥ २६७ ।।
अथ पापोपक्रमः ॥ पात्यते येन जीवात्मा नरकादौ निरन्तरम् । पापं तच्च विजानन्तु जीविते सति कष्टदम् ॥ २६८॥ श्वासकासादयो रोगा गण्डमालभगन्दराः । विजायन्ते च पापेन पापम्वै दुःखकारणम् ।। २६९ ॥ कालकूटति पीयूपं मित्रश्चापि । विपश्चति । वैधेयेति सुधीश्चापि सज्जनो दुर्जनायते ॥ २७० ॥ फेरुः सिंहति सारङ्गः क्रोडति किल्बिषादिह । तस्मात्याप न कर्तव्य लब्ध्वा नृजन्मदुर्लभम ॥२७१ ।। युग्मम् ॥ मालिन्यञ्जायते देहे कर्मण्यपि तथैव च । आपदो मूरि सन्तापाः पापाचेह भवन्ति वै ॥२७२ ।। दोषायन्ते गुणाः सर्वे मूढताऽऽयाति सर्वतः । विलीयते च सज्ज्ञानश्चाजानं हृदि भाषते ॥ २७३ ॥ पापिनाम्पायशो लोके सुताद्या अपि पापिनः । जायन्ते हेतुमद्भावाद्वीजाकुरकनीतितः ॥ २७४ ।। पापेन यातो नरचक्रवर्ती श्रीब्रह्मदत्तः किल सप्तमीम्बै । पापाद्विरम्यैव ततः सुकार्य पुण्यश्च येन भाविताऽशु मोक्षः ॥२७५॥
अय सम्यक्त्वोपक्रमः।। सम्यक्त्वस्यापिचवारः सन्ति मेदा जिनोदिताः। उपशामिकमेकच क्षायोपशामिकन्तथा ॥२७६।। क्षायिकन्तृतयं ज्ञेयं साश्वादनञ्चतुर्थकम् । वेदकम्पञ्चमं ज्ञेयं ज्ञात्वा यान् याति सत्पदम् ॥ २७७ ॥ युग्मम् || भूषणान्यपि पश्चैव । ज्ञेयानि तस्य सद्गतेः । तीर्थसेवा च दक्षल संस्थयोंन्नतिभक्तयः ॥ २७८॥ दूषणान्यपि पचैव सम्यक्त्वस्य विभाव्यताम् । यानि
१ लक्ष्मी । २. मूर्खायते । ३. पण्डितः।