________________
न्यायविनिश्चयविवरणे
[२०१५
णामस्य कल्पितत्वम ; कल्पितस्य वस्तुम्वभावत्वानुपपत्ते, कल्पनानुपपत्तश्च । नथा हेिका साशाकाय
करम' ! वस्तुतः सदृशाकारा सा चंद्वस्तु न किं तथा ? ॥१२८३॥ यदि कल्पनयवासौ तदाकारा तदा कथम् । अनवस्थानदोषोऽयमनुपशी निषिध्यताम ? ॥ १२८४॥ ननो दूर गतेनापि सादृश्यं कल्पनागनम ।
वस्त्वेव प्रतिपत्तव्यं तथा वस्तुपु धीमना ॥ १२८५।। तेन सम्पन्ध इत्यनेनाप्यात्मान्तरण सम्बन्धव्याख्यानम् ; न हि सम्बन्धस्यात्मान्तरमन्यत्र सन्धिरूपान् । संयोगादिरास्मान्तरमेवेति चेन् ; सोऽपि कथं तदन्तरम् ? पावकादो १० सम्बन्धप्रत्ययजननादिति चेत् । तदपि सर्वत्र कस्मान्न भवति ? तस्य तवासम्बन्धादिति चेत् :
गावकादावपि न भवेत् तदविशेषात । तत्र सम्बध्यत इति चेत् ; यदि स्वतः ; पावकादिरपि धूमादिना तथैध सम्बध्येतेति पर्याप्तं संयोगादिपरिकल्पनया । तस्य सम्बन्धत्वादुपपन्नः स्वतः सम्बन्धो न पाबकादेविपर्ययादिति चेन् ; तदेव कुत; ? स्वतः सम्पन्धादिति चेन् ; सोऽपि फस्मात् ? सम्बन्धत्याच्चेत् ; न ; परस्पराश्रयात् । सम्बन्धस्त्वं तथा प्रतीतेरिति चेत् ; नन्धियमेव तत्र दुर्लभा पावकादिन्यतिरेकेण तस्यैवाप्रतिपत्तेः । यदि न तत्प्रतिपत्तिर्न कश्चित्सम्बन्ध इति कथं 'सम्बन्धी पावकादिः' इति प्रत्ययः ? विशिष्टप्रत्ययस्यासति विशेषणेऽनुपपसरिति चेत् ; न ; स्वयं तथा तस्य परिणामादेव तदुपपतेः 'सम्बन्धः 'संयोगाविः' इति प्रत्यययत् । न हि तविलक्षणं तत्रान्तर्भवति तदा पदार्थभेदाभावापत्तेः। तन स्वतस्तस्य तत्र सम्बन्धः । नापि तदन्तरेण ; तत्कल्पनायामनवस्थादोषान् । नायं दोषः ; समवायस्य तदन्तरत्वान् , तस्य चानाश्रितत्वेन तदन्तरनिरपेक्षत्वान । न चैवं तस्यासम्बन्धत्वम् ; सम्बन्धयुद्धिकरणान् सम्बन्धत्योपपत्तेः । न च पारतन्यात्सम्बन्धत्वं तद्बुद्धिकरणं वा ; द्रव्यगुणादावपि तत्मसाक्षात् । तती स्वाभाब्यादेव तस्य तत्त्वं तत्करणञ्चेति किं पारतन्ध्येण यतोऽनयस्थानमिति चेत् ? उच्यते
समवायस्य नित्यत्वव्यापक्रत्वोपकल्पनात् । एकत्र युक्तः संयोगः सर्वत्रापि ततो भवेत् ।। १२८६ ।। न हि तत्रापि तद्भावे तस्मादन्यनिबन्धनम् । से चेत्सर्वत्र सर्वत्र संयोगोऽपि नियोगतः ॥ १२८७ ।। ततोऽग्नाविव संयोग धूमोऽन्यत्राप्युपत्राजन् । व्यभिचारात्कथं नाम पायकस्यानुमापकः ॥ १२८८ ।।
३ प्रत्युतमिति सम्बन्धः।
"प्रत्युक्तमिति सम्बन्ध:"-. टि. २ स्वरूपान्तरेण । सयोगादिति प्र-ता०। ५न नेस-आ०, ब०, प० ।