SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ २।१६ ] ५ २ अनुमानप्रस्तावः न च स्वभावनानात्वं समवायस्य यद्बलात् । विषयेषु नियामो ऽयं संयोगस्य प्रकल्प्यताम् ॥१२८९॥ तन्नानात्वादभेदश्यंत समवायो ऽपि भिद्यते । तथा च "तत्त्वं भावेन व्याख्यातम्" इति दुष्यति ॥१२९०॥ भेदश्चेत् तत्कथं तस्य तत्र चेत्समवायतः । तस्याप्येकस्वभावत्वे ततस्तन्नियमः कथम् ? || १२२१॥ तत्र स्वभावनाये दो पूर्वो ऽमिलक्ष्यतान् । समचायान्तराक्षेपस्त्वाक्षिपत्यनवस्थितिम् ॥१२९२॥ कथञ्चिदेवाभेदश्चेत्स्वभावसमवाययोः । सम्बन्धतद्वद्रूपः स्यादेको भावस्तथा न किम् ॥१२९३॥ यतः सम्बन्धिनोऽन्यस्य सम्वन्धस्य प्रकल्पना । प्रेक्षावत्तात्रिलोपाय भवतो नाव कल्पते ॥१२९.४॥ ३३ तन्न[परः संयोगादिः सम्बन्धः । नाप्युपकार्योपकारकभायादिः ; तस्यापि भावादर्थान्तरत्वे श्रुतः स तस्येति व्यपदेशः ? सम्बन्धादुपकार्योपकारकभावादेरिति चेत्; न; तत्रापि तथैव प्रसङ्गादनवस्थोपनिपाताच्च । ततः स्थितम् -'समान' इत्यादि । و ५ १० १५ 'प्रतिपचित:' इत्यनेन तदात्मनः सम्बन्धस्य निरवद्यसंवेदनविषयतामवद्योतन् स्वमनीषिक्या तत्कल्पनं परिहरति । प्रतिपादिता च तत्प्रतिपत्तिर्बहुशः पूर्वमिति नेदानीं प्रतन्यते । ननु यथा धूमस्य तदन्तरसदृशस्य पावकसम्बन्धः तथा मशकवर्तेरपि पावकस्यापि यथा तादृशस्य घूमप्रतिबन्धस्तथा मणिविशेषादेरपीति मशकवर्तेः पावकस्य धूमाच्च मण्यानेर नुमान मापयत इति चेत् एवमेतद्, यदि समानपरिणाममात्रेण तद्भावः । न चैवम् ; तद्विशेषेण तदुपकल्पनात् तस्य च धूम - २० पावकमेदेष्वेव भावात् न मशकादिभेदेषु । कथं पुनस्तत्परिणामो विशिष्टश्वाविशिष्टश्चेति चेत् ? कथं सामान्यं तादृशं यतो यथोक्तदोषस्तत्रापि न भवेत् ? तथा प्रतीतेरिति समानमन्यत्र । नन्वेचं सामान्यस्यैव समानपरिणाम इति शब्दान्तरमिति चेत् न प्रतिव्यक्तिपर्यवसितस्यैव परिणतिविशेषस्य तेनभिधानात् , सामान्यस्य तद्विपरीतत्वात् । i 7 भवतु तत्परिणाम एव सामान्यम् तस्य तु व्यक्तिभ्यो भेद एवेति योगाः । अभेद एवेति २५ साङ्ख्याः । तत्राद न भेदोऽभेदरूपभेदो भेदरूपतः । इति । न भेदो न व्यतिरेकः तत्परिणामस्य विशेषेभ्यः । कुत एव तद् ( एतद् ) ? अभेदरूपत्वात् अभेदस्तस्य तैस्तादात्म्यं रूपं यस्य तस्य भावात् अभेदरूपत्वात् । एतदपि कुत इति चेत् ? तथा प्रतीतेरेव । तथा च वक्ष्यति - ' तथासंवित्तिसम्भवात्' इति । संवेद्यते ३० हि तत्परिणामस्य तदभेदरूपत्वं 'सशो देवदत्तः' इति देवदत्तविशेषसामानाधिकरण्येन तस्य संवित्तेः । १ चै० सू० ७ २ २८ २ दिसता ३ समानपरिणामशब्देन ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy