________________
२८
न्यायविनिश्रयविवरण
[२।१३ तदाभत्ये नायं दोषः : एकविषयस्यापि तद्विशेषात् प्रतिभासविशेषोपपत्तेः । एतदेवाह
दूरदरतराविस्थैरेकं वस्तु समीक्ष्यते । इति । सुगममेतत् । कथं समीक्ष्यते ? इत्याइ[ नानाभ स्यात्तथाऽसत्यं न स्वनुरोधि किम् ? ॥१३॥]
नानाभं वैशधतारतम्ये नानैकप्रतिभासं वस्तुविषयत्वात् । तदाभत्वे दूपणान्तरमाह'स्यात्तथाऽसत्यं न' इति । तथा तेन प्रत्यक्षाभप्रकारेण असत्यम् अविद्यमानं कामिन्यादि न स्यात् । अस्ति चाविद्यमानस्यापि तस्य तदाभत्वम् । परस्यापि "अभूतानपि पश्यन्ति” [प्र. वा० २।२८२ ] इति युवाणस्य प्रसिद्धत्वात् । तन्न वस्तुविषयत्वात्तवाभत्वं यतोऽनुमानेऽपि ततस्तदापत्त्या प्रत्यक्षत्वप्रसङ्ग इति भावः ।
कथं पुन: कामिन्यादरसत्यत्वं ज्ञानरूपतया तस्यापि सत्यत्वात् ? 'अभूतानपि' इति वचनं वायत्वापेअयैच । न चैवं पुरतोभावस्य विरोधः तस्य प्राहकान्सरापेक्षत्वात् , स्वात्मनि च ग्राहके तदनुपपत्तेरिति मन्तव्यम् । तस्यापि पवेदकभेदकल्पनादुपपत्तेः । ज्ञानात्मकत्यञ्च तस्य 'प्रतिभासमानत्वात् सुखादिवत,' इत्यनुमानान् । न च सत्यकामिन्यादिना
ज्यभिचारस; तस्यापि पक्षीकरणान । ततो ज्ञानमेवास्ति न बाह्यमिति चेत् ; एतदेवाइ-न १५ चेद्वस्तु' इति । नत्रो मध्यदीपकत्वेनात्रापि सम्बन्धात् । न यदि वस्तु बाह्य प्रक्रमात् ।
अत्र दूपणमाह-'अनुरोधि किम्' इति । अनुरोधः स्वीकारः सोऽस्मिन्नस्सीत्यनुरोधि पराभिमतं ज्ञानम् । तत्किम ? नैव । तथा हि-न तनीलमेव तस्य थायस्याप्यविरोधात् । अपरोसत्वेन विशिष्टमिति चेत ; तदपि यदि नीलमेव कथं तदेव सेन विशिष्ट नाम ? कथं वा सद् बाहो न भवेन् ? अन्यदेव चेत् । तदेव ज्ञान स्थान न नीलम् । भवत्वसदेव तदिति चेत् ; न ; प्रतिभासात् । सोऽप्यसत पवेति चेत् ; न; स्वतस्तदयोगात् । ज्ञानादिति चेन् ; न; "नान्योऽनुभाब्यो बुद्धयास्ति" [प्र. वा० २।३२७ ] इत्यस्य विरोधात् । विभ्रमादिति चेत् । तस्यापि विज्ञानत्वे तदयोगात् । तत्रापि विभ्रमान्तरकल्पनायामनवस्थापत्तेः । अज्ञानत्ये तु न ततः तत्प्रतिभासो विरोधान , बहिर्भावप्रत्युज्जीवनाञ्च । तन्नासत्त्वे तस्य प्रतिभासः। तदभावे ज्ञानमपि न भवेत् तस्यापि निर्भेदस्याप्रतिवेदनात् इत्युपपन्नमेसम्-'अनुरोधि किम्' इति । यदि तु न ज्ञानं नीलमात्रम् अपरोक्षत्रमात्रं वा तदुभयरूपत्वात्तस्येति; तदा स्वपरविषयतयापि द्वैखायापत्तेः कथं बापस्य सतोऽसतो वा न ततः प्रतिपत्तिः यतो 'दूर' इत्यादि न स्यात् , 'तथा सत्यं न' इति च सूक्तं न भवेत् । तन्त यस्तुविषयत्वादेवानुमानस्य स्पष्टत्वं दूरस्थाविज्ञानानां तविशेषाभावप्रसङ्गात् , अवस्तुविषये च तदभावापत्तेः ।
अथवा यास्पष्टावभासित्वादनुमानमवस्तुविवर्य प्रत्यक्षमपि कश्चित्तथा भवेदित्याह१. 'द इत्यादि । दरखरतरयो आदिशव्यादासनासम्नतरयोस्तियन्तीति तत्स्थास्तैः एक
पादपादिलणं वस्तु समित्यविप्रतिसारण ईक्ष्यते दृश्यते । कथम् ? नानाभं दूरादाबस्सधादित्वेन आसन्नादो स्पष्पादित्वेनानेकप्रतिभासमेकमिनि । आसन्नाविप्रतिभासमेव सत्यं नेतरदिति चेत ; उत्तरम्-तथा सेन नानाभमिनि प्रकारेण सत्यमषितथं वस्तु । यद्येवं दूरादिव
१ अयोपशमविशेषात् । २ अविसंवादितया ।