________________
२।९ ]
२ अनुमानप्रस्ताव तहीदं सुभाषितम्-"ज्ञानवान् मृग्यते' [ प्र० बा० १।३२ ] इति, स्वत एव बोधात् तदन्त्रेपणस्य चैयात् । ज्ञानवत एव बुद्धस्योपदेशादिति चेत् ; स' तहि बहिरर्थरूप एव, बोधरूपत्वे पूर्ववहोपात् । साधनदूषणात्मा च स इति कथन्न तत्प्रयोगान्यथानुपपत्त्या बहिरर्थसत्तासाधनम् ? अथ तत्प्रयोग एवं कस्यचित्रास्ति तत्प्रतिभासम्तु विप्रलम्भ एव स्वप्नवत् तदयमसिद्धो हेतुरिति चेत् ; न ; अस्यैव आसिद्धतोद्धाचनस्य तत्मयोगत्वप्राप्तेः । अयमपि नास्त्येव, एतत्प्रतिभासस्यापि विप्रलम्भत्वादिति चेत् : ५ न : अत्रापि तथैव प्रसादनवस्थादोपान । म सत्पतिभासो बिनल्या मामनिमणे कमि हाल ।
भवतु तत्वं विश्रम एव बहिरन्तश्चासत एवं प्रतिमासात् स्नप्नवदिति चेत् ; नेदानीमसिद्धो हेतुः तत्मयोगत्वात् । नापि विरुद्धो बहिरर्थत्वादन्यत्र तहमावात् । न हि विश्रमत्वे तद्भावः ; विभ्रमाद्विअमसिद्धनिषेधात् । सत एव न व्यभिचारी चति युक्तमतो बहिरर्थसत्तासाधनम् । ततः स्थित 'तदभावेऽपि' इत्यादि । साम्प्रतं सौत्रान्तिकं प्रति सत्तामाधनमाह
अक्षादेरप्यदृश्यस्य तस्कार्यव्यतिरेकनः || ह ॥ इति ।
अक्षमिन्द्रियं चक्षुरादि, तदादिर्यस्य भूतादेस्तस्यापि न केवलं प्रमाणादेः । 'सत्ता प्रसाध्यते' इत्यधिकृल्यागिसम्बन्धः । कुत एतत् ? तस्याक्षादेः कार्य रूपादिज्ञान-कार्यविकारादिक तस्य व्यतिरेक: कारणान्तरसाकल्ये ऽप्यभावः ततः । कार्यव्यतिरेको हि कारणव्यतिरेकं गमयस्यन्यथा तदनुपपत्तेः । यच्च गम्यमानव्यतिरेकं कारणं तदशादि, इत्युपपन्नं ततस्तत्साधनम् । किं तत्साधनेन १५ प्रत्यक्षादेव तसिद्धेः. गोलकादिकमेवाक्षादि तत एव तत्कार्यदर्शनात् , तच्च प्रत्यक्षत एव प्रतिपन्नमिति चेत् : न : तस्य तद्धेतुत्वे ऽविशेषेण प्रसङ्गात् । न चैवम् , सत्यपि तस्मिन् कस्यचित्तदभावात् । सदपि सशक्तिकमेव कारण नापरमिति चेत् । तत्तहिं कथं दृश्यं शक्तेरतीन्द्रियत्वात् ? नन्वेवं न किञ्चिदपि कारणं दृश्य स्यात् सर्वशक्तेरतीन्द्रियत्वात् , तत्कथं जलादौ तत्कार्यार्थिनः प्रवृत्तिः तच्छक्तेरपरिज्ञाने तदनुपपत्तेः ? कार्याच्च तत्प्रतिपत्तौ परस्पराश्रयात. तत्परिज्ञाने कार्यम् , ततश्च २० तस्परिज्ञानमिति । क्रचिदभ्यासादिसहायात् प्रत्यक्षादेव तत्प्रतिपत्ती गोलकादावपि स्यादविशेषादिति चेत् ; न ; जलादिवत्तत्राकारविशेषस्यानवधारणात् । यादृशो हि शक्तिमदभिमतस्याकारस्ताशस्यैव तद्विपरीतेऽपि तस्मिन्नवलोकनात् । तन्न तत्प्रतिपत्ती प्रत्यक्षमवलम्बनं हेतोरेवावलम्बनत्वात् । न चायमसिद्धो हेतुः ; 'रूपादिकारणान्तरे तस्य प्रसिद्धत्वात् पिहितलोचनादिवत् । तत्रापि रूपादेः परिणतिविशेषत्र्यतिरेकादेव.तव्यतिरेको न लोचनादिव्यतिरेकादिति चेत् : न ; अपिहितलोचनादेः ६५ तत एव तत्कार्यदर्शनात् । न हि परिणतिविशेषविकलादेव कस्यचित्कार्यमपरस्य तद्व्यतिरेक इत्युपपन्नम् । अतो लोचनादिन्यतिरेकादेव तद्व्यतिरेक इति कथं न स तत्पतिपत्तावालम्बनम् ? भवत्येवालम्बनं ततस्तु नाक्षादेः सत्त्वं साधयितव्यं परकीयस्यापि तत्प्रसङ्गात् , अपि तु कार्यस्यैव तदपेक्षत्वमिति चेत् ; तदपि परकीयेन किंन्न साध्येत ? आत्मीयेनैवाविनाभावादिति चेत् ; न ; सत्तासानेऽप्यस्यैव परिहारत्वात् । अपि च :
१ उपदेशः । २. "भूतराब्दोऽत्र व्यन्तरविशेषवाची'ता. टि। ३ गोलकस्य रूपादिशानहेतुरवे । ४ गोल के। ५ शतिश येऽपि गोलके । ६ रूपादिः कारणा- तराद्वधतिरेकस्य प्र-बा०,०प०१७ तदस्तु मा०, ब०,। ८"रूपाविशनस्यैव"-तादि। ५ "प्रत्यक्षेण'-ता. टि।