________________
२०
न्यायविनिश्वयविवरणे
यतः शून्यवादस्य प्रत्याख्याने प्रकल्प्यताम् । सतोऽपि ब्रह्मणस्तस्य विशेषः कल्प्यतां कुतः ॥ १२४५ ॥ अनित्यत्वाविभुत्वादेरिति चेन्नेदमुत्तरम् ।
२५
नीलादेरिव तस्यापि वासितस्यैव भासनात् ॥ १२४६ ॥ सुन्नेव यदि नीलादिः निर्वाधत्वेन बुध्यते ।
र्भावोऽपि सन्नेव तथा किन्नावबुध्यते || १२४७ ॥ न हि तत्रान्यथा ज्ञानं कदाचिदपि दृश्यते ।
तो येन सः स्याद् बहिर्भावः प्रतीतिमान् ॥ १२४८ ॥ ज्ञानम्, न
तत्कस्यचिदन्तर्नापि
i
स्यान्मतम् - शरीरनीलादितदन्तरालप्रतिभा संमेकमेव १० कुतश्चिद् बहिः स्वरूप एवावस्थानात् तदयमदोष इति तन्न; 'दूरादेवाहमत्रस्थो नीलादिकमवलोकयामि' इति नीलादितद्वेदनयोः भेदस्यैवानुभवतः प्रतीतेः । तस्याश्च भेदानवगमे बुद्धि चैतन्ययोरभेदप्रतीतेरप्यभेदावगमो मा भूत्, तथा च यथा साङ्ख्यं प्रत्येतस्त्वयोच्यते
"अभिनवेदनस्यैक्येनैव तद्विभेदवत् ।
'सिध्येदसाधनत्वेऽस्य न सिद्धं भेदसाधनम् ॥" प्र० वा० २२२७८ ] इति । १५ तथा च भवन्तं प्रत्यस्मा मिरिदमुच्यते
विभिन्न वेदनाद् भेदे यन्नैवं तदमेदवत् ।
सिध्येदसाधनत्वेऽस्य सिद्धं नाभेदसाधनम् || १२४९ ॥ इति ।
कथं पुनर्नीलादेः तद्वेदनाद् भेदे 'नीलादिः प्रतिभासते' इति प्रतिभाससामानाधिकरण्येन प्रतिपत्तिः, अप्रतिभासात्मनि तदनुपपत्तेरिति चेत ? अभेदेऽपि 'नीलादिः' इत्येव' 'प्रतिभास:' इत्येव २० वा भावात् कथं तथा प्रतिपत्तिः ? अन्वयव्यतिरेकाभ्यां मेदपरिकल्पनात् अन्वितो हि प्रतिभासः तस्य पीतादावपि भावाद् व्यतिरिक्तश्च नीलादिविपर्ययात् ।
"
[ २८
तदनेन विरुद्धधर्माध्यासेन भेदपरिकल्पनमुपस्थाप्यमानं सामानाधिकरण्यव्यवहाराय कल्पते इति चेत ; उच्यते
विरुद्ध धर्माध्यासो ऽयं तत्त्वतो यदि विद्यते ।
नीलतज्ज्ञानमेदः स्यात् ताचिकः कल्पितः कथम् ।। १२५० ।।
कल्पितश्चेत्तदभ्यासः कुतस्तत्कल्पनं मत्तम् ।
अन्यतश्चेत्तदभ्यासादनवस्था प्रसज्यते ॥ १२५१ ॥
तद्भेदकल्पनादेव प्राच्या तद्भेदकल्पनम् ।
प्राच्यखापि ततः प्राच्यान्न चेहास्त्यनवस्थितिः ॥ १२५२ ॥
१ - त्यषि - प० । २ तत्र प० । ३ विद्वे सामनत्येऽस्य न सिद्धिं भेदबाधनम् | १० | ४- मासतेरित्येवाभा - आ०, ब०, प० ।