________________
न्यायविनिश्वयविवर
[ २राट
प्राणतत्त्वस्यापि तथैव वक्तव्यत्वापत्तेः । अथ तत्त्वं पश्चात् संवृत्यर्थपर्यालोचन पाटवाल्लोकः स्वयमेव
प्रत्येति । यदुक्तम्
१८
] इति;
"ववादवगतार्थस्य भावग्राहो निवर्तते ।" [
ततो न पूर्वमेव तद्वचनेनोद्वेगः क्रियत इति चेत् ईश्वरादिवचनेनापि न कर्तव्यः ५ तस्यापि तथैव प्रतीतेः । ततः संवृत्या प्रमाणादिवत् ईश्वरादिकमणि सांगतेन सिद्धान्तीकर्तव्यम् । तदाह- इष्टसिद्धिः परेषां वा इति । इष्टस्य लोकपूजितस्येश्वरस्य सिद्धिः संवृत्या स्यात् परेषां प्रमाणादीनामिव 'वा' इत्यस्येवार्थत्वात् । ततः किम् ? इत्याह- 'तइत्यादि । तत्रेतिं तस्येत्यस्यार्थे द्रष्टव्यः । तदयमर्थ: - तंत्र तस्येष्टस्य वक्तुर्वद्रतः बौद्धस्य I कथं वक्तुः ? अनुषङ्गवत् । अनुपङ्गो दोपो ऽनुपज्यमानत्वात् तद्वत् यथा भवति एवं १० न कौशलम् अकौशलमभिमतस्यैव 'दोपवत्त्वेन वचनान् । अपरमप्यतिप्रसङ्गमाह--'अतीत'
२०
इत्यादि । अतीतानां घटादीनां कपालादिषु तेषाखानागतानां पर्यादिषु आदिशब्दाद्वर्तमानानां दण्डचक्रादीनां परस्परात्मनि सत्ता शक्तिरूपेण साङ्ख्यसि। सापि न केवलमिष्टसिद्धिरेव संकृत्या सौगतस्य भवेत् । ‘ततः किम्' इति प्रश्ने पूर्ववदत्रापि 'स' इत्यादि वक्तव्यम् । तन्न संवृत्या ऽस्तित्वं प्रमाणानां यतस्तत्साधनं सिद्धसाधनं भवेत् ।
१५
अभावैकान्ते विरोध एवोद्भावयितव्यः - 'यदि तदेकान्तो न किंखित्तत्साधनम्, तच्चेनं न तदेकान्तः' इति किं सत्तासाधनेन ? तावता तद्रादिनः पराजयादिति चेत्; उच्यतेविरोधो नाम हेतोरेव विपक्षगोचरो व्यापारः स कथमसतस्तस्य स्यात् सतश्चेत् सिद्धं तदुद्भावनं भावसाधनं तस्य तन्नान्तरीयकत्वात् । अस्तीदं किन्तु तेन तदेकान्तनिषेध एव कर्तव्यो भाव साधयतापि तस्यावश्यकर्तव्यत्वात्, अन्यथा परस्यापरिक्षीणपक्षताप्राप्तेरिति चेत्; न; तन्निषेधस्य तीरूपस्य करणेऽपि तत्प्राप्तेरविशेषात् । भावरूपस्य तु करणं भावसाधनमेव । न चायमप्येकान्तः, यस्मान्न हि तस्य स्वतः प्रतिपत्तिः ; विप्रतिपत्तेः । नापि परतः तदेकान्ते परस्यैवाभायात् । भावे तद्विरोधः परस्परव्यवच्छेदस्यापि भावात् । अचस्त्वेव परम् अविद्यावऌतल्यात् न हि तेन तदेकान्तो विरुध्यते चन्द्रमस्येत्यैकान्तवत् द्वित्वेनेति चेत् ? न परतः प्रतिपत्तिप्रसङ्गात् । सति तस्मिन् कथं तदेकान्त इति चेत् ? न २५ वस्तुसता हि तेन तद्विरोधो न सांवृतेन तदनुकूलत्वात् । सांवृतात् कथं अविद्योपक्लप्सात् कथम् ? न ततोऽपि तत्प्रतिपत्तिः भेदारोपस्यैव निवृत्तः । परं हि परेराम्नाय - ज्ञानमुच्यते तच्च "अस्थूलमनल्प महस्व मदीर्घम लोहित मस्नेहमच्छायम्" [ बृहदा ३८८ ] इति स्थूलादिभेदपर्युदासप्रतिभासितयोपजायमानमखिलमपि मेडारोपमभ्यासपाटवाद्विनिस्वयमपि निवर्तते विषवत् । इष्टं हि विषं विषान्तरमुपशमय्य पुनरात्मानमप्युपशमयतीति,
अभवैिकान्तस्याप्येवं तत्सत्त्वस्थ सांवृतत्वात् । प्रतिपत्तिरिति चेत !
१ - दिः त-आ०, ब०, प० । २-ति वर्त्रस्येत्य ता० । ३तस्य पर ४ दोषत्वेन य० प०। ५-मस्य स्या-आ०, ब०, प० । ६श्वाश ० ० पता । ७ चन्द्रस्यैक
आ०, ब०, प० । ८ विश्वं हि भा०, प०, पत्र 1