________________
२८] ३
२ अनुमानप्रस्ताव चिन्ताकृताया एव तस्या अप्याफर्णनात् । अभावरूपैव चिन्तेति चेत् ; धुद्धिरपि भावरूपैवेति समः समाधिः । अतो न प्रमाणाभावे परस्येवात्मनोऽपीष्टसिद्धिः । अस्तु तर्हि संवृत्यैव प्रमाणमिति चेत् । किमिदं संवृत्येति ! स्वरूपेणेति चेत् ; वस्तुसदेव लाई प्रमाणं स्वरूपभावात् । तथा च परेषां जैनानामेवेष्टसिद्धिः सिवानायषितप्रमाणप्रतिहाना न सांगतानाम् , सति तस्मिन् सर्वाभावस्थाप्रतिष्ठितेः । सदाह-इष्टसिद्धिः इष्टस्य साधयितुमभिप्रेतस्य प्रमाणस्य सिद्धिः निीतिः परेषां था जैनानामेव ५ वेत्यस्यावधारणार्थत्वात् । दूषणान्तरमाह-तत्र तस्मिन्स्वरूपे संवृत्यर्थे वक्तः संवृत्यास्ति प्रमाणमिति ब्रुवाणस्य अकौशलं वचनवैदग्ध्याभावः । प्रसिद्धार्थं स्वरूपपई परित्यज्य तद्विपरीतस्य संवृतिशब्दस्योपादानात् यथा 'तरुपडित्तरसङ्कटैव मुनेः' इत्यनुक्त्वा 'ताल्युर्वेवर्षेः' इति ब्रवाणस्य । तन्न संवृत्येति स्वरूपेणेगर्थः । न पररूपेणेत्यषि; तत्रापि वस्तुतः प्रमाणसिद्ध्या परेपामेवेष्टसिद्धेर्वचनकौशलाभावस्य च तदवस्थत्वात् । अपि च, यदि पररूपम् ; कथं तेनै भावः ! स चेत् : कथं पररूपं १० व्याघातात् | अव्याघातेऽप्याह-अतीतानागतादीनामपि सत्ता इति । तेषामपि सस्वं पररूपेण प्राप्नुयादित्यर्थः, न केवलं प्रमाणस्यैवेत्यपिशब्दः । तथा च
भावावबोधरूपेणैवातीतेन भवेदयम् । भावनैरात्म्यबोधस्ते भाविकालसमन्वयी ॥ १२३६ ॥ तेनैव भावबोधः स्यादतीतो मायनाऽथवा । तद्गोचरो विचारश्च सर्वोऽप्येवं वृथा भवेत् || १२३७ ।। सतापि तेन पूर्वस्मिन् भावप्राइनिवर्तनात् । परत्रापि विना तेन भावनैरात्म्यनिर्णयात् ॥ १२३८ ॥
प्रतिपायो न कश्चित्स्यादेवमन्यत्र कथ्यताम् । तन्न पररूपेणेत्यपि तदर्थः । अयं तर्हि स्यात् संवृत्या स्वपरविंकल्पनिर्मुक्तयेति चेत् । २० न ! तन्निर्मुक्तेरप्यस्य स्वरूपत्वेन तन्नापीष्टसिद्धिरित्यावेर्दोषस्याविशेषात् । तदाह-अनुषणवत् अनुषञ्जनं पूर्वदोषस्यानुगमोऽनुषसः स विद्यतेऽस्येति अनुषङ्गवत् । तन्निर्मुक्तिः संवृतिरिति परमतं तस्यानुक्तस्य प्रक्रमयशात् आगमात् । यदि पुनस्तुच्छेच तन्निर्मुक्तिः ; तर्हि स्पष्टमभिषाक्तव्यम्-- 'न कथञ्चिदप्यस्ति प्रमाणम्' इति, किं संवृत्या ऽस्तीति ? प्रथमत एव तदभावाभिधाने तवगवेषिणामुछेगात् न तत्त्वप्रतिपत्ताबाभिमुख्यं भवेत् , ततो मा भूत्तथोद्वेग इति प्रच्छादिताभावस्य प्रमाणस्ये- २५ दमभिधानं संवृत्याऽस्तीति । तदुक्तम्
"सर्वमस्तीति वक्तव्यमादौ तत्चगवेषिणा" [
न चैयं वदतः किमप्यकौशलमनुद्वेगवचनादेव कौशलोपपत्तेरिति चेत् ; न ; एवं नित्येश्वरप्रधानादेरपि बचनप्रसङ्गात् ; तदमावस्याप्रच्छादितस्य वचने लोकस्योद्वेगाविशेषात् । उद्विजतां वा लोको मा वा यथावस्थितमेव तु तत्वं तत्त्वविदा वक्तव्यम् , अन्यथा वञ्चकत्वमसङ्गादिति चेत् ; न ३०
१ तर्वायुया इ-मा०, १०, २० । तालिः तरपक्तिः ऊर्वेव पिशालेय ऋषी मुनेः । २-शिर्वश्रा०, २०, ५० । ३ तेनामा-आ०, २०, ५० । ४-सिद्धरि-आ०, ५०, ५०१५-अयुक्त-आ०, ०,१०।