SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ २२] २ अनुमानप्रस्तावः क्षणक्षयादावध्यक्षं विपर्यासादिकार्यवत् । तस्याप्येवं प्रमाणत्वं तत्प्रवृत्तिक्षम भवेत् ।। १२१४ ।। औरोपेण सताऽप्येवं तत्प्रामाण्यानुपद्रवात् । तद्व्यवच्छेदयत्तते प्रयासायैव केवलम् ।। १२१५ ॥ अनुमानं प्रमाणत्वं तदव्यवच्छेदिनोऽपि तत् । कथं नामावतिष्ठत यत्प्रमाणद्वयं भवेत् ॥ १२१६ ।। नीलादावेव तन्मानं यदि तत्रैव निर्णयात् । प्रागेयाधिगमे तस्मान्निर्णयः फिमपेक्ष्यते ॥ १२१७ ।। फलं तदेव तस्यापि निष्पन्नं तच्च दर्शनात् । निष्पस्ने ऽपि व्यपेक्षायां व्यपेक्षा नावतिष्ठते ॥ १२१८ ।। परतोऽधिगमे तस्मात् दर्शनास पृथग भवेत् । ततश्चेदं विरुध्येत तेनामर्थान्तरं फलम् || १२१९ ॥ इति । तत्साधकतमत्वञ्च निर्णयस्यैव युज्यते । सत्येव तस्मिंस्तभावान्न सारूप्याद्विषादिवत् ।। १२२० ।। "तस्मानामेगाभिमतेः सामान मेवरूपतः।" विदुषा न तु वक्तव्या वक्तव्या निर्णयात्मता || १२२१ ॥ निर्णयात्मनि चाध्यक्षे पृथगेवार्थभासनात् । उपचारात् परिच्छित्तिः कथं तत्रोपकलप्यताम् ।। १२२२ ।। इति । शब्दार्थः कथ्यते-परम् इत्यस्यानन्तरम् 'अपि च' इत्येतद् द्रष्टव्यम् । तदयमर्थःप्रत्यचम् उक्तरीत्या निर्णयरूप स्पष्टं ज्ञानम् , तत् आस्मान स्वरूपं प्रतिभासयेत् प्रतिभा- २० समानं कुर्वीत । न केवलं तमेवापि तु परमपि च बहिरर्थमपि च प्रतिभासयेत् । कथम् ! सत्यम् अविथिम्, तत्त्वञ्च मुख्यतयैव तत्र तत्करणात् । उपचारेण तत्करणे हि वित्तश्रमेव सद् भवेत् । एक्मपि सत्यं तत्करणं परस्मिन्नेव वक्तव्यम् नान्मनि विवादाभावादिति चेत् ; न; दृष्टान्तार्थत्वात् तद्वचनस्य । यथा आत्मनि उत्करणं सत्यमेवं परस्मिन्नपीति । 'केनैवम् ? इत्याह-परिस्फुटम् अनुभवारूढं येन । प्रसिद्धानुभबं हीदं मन्नीलादि बहिर्गतम् । प्रत्यक्षे प्रतिभातीति सर्वमाणभृतामपि || १२२३ ।। अर्थसारूप्यबादोऽयं यदि तत्रोपकल्प्यते । प्रत्यक्षेण स बाध्येत पावकानुष्णवादवत् ।। १२२४ ।। १आगेप्येण श्रा०,१०,५०।२न्यत्करते मा०,०,५०। ३२००२३०६।४-थल मु-- मा०,०,०। ५ "प्रतिमासमानत्वकरणात्"-बाटि ६ चेन्नैवमि-श्रा०, १०,५०।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy