________________
न्यायविनिश्चयविवरण
[२।२ स्वत एव तत्राव्यभिचारप्रतिपतौ प्रथमज्ञानेऽपि स्यात् । तस्य कचियभिचारोऽपि दृश्यत इति चेत् ; न; अर्थक्रियाज्ञानस्यापि स्वप्ने तदर्शनात् । स्वप्नतज्ज्ञानविलक्षणमेव जाग्रतज्ज्ञानमिति चेत् ; प्रथमज्ञानमपि व्यभिचारिज्ञानविलक्षणमेव किन्न स्यात् ! लोकस्य तथा बित्रेकाभावादिति चेन् : न : इतरब्रापि तुल्यत्वात् । ५ अपि च, तत एवानुमानस्यापि किन्न प्रामाण्यम् ! सर्वत्र तद्विषये तदभावादिति चेत् : प्रत्यक्षस्यापि न स्यात् , तद्विषये ऽपि सर्वत्र तदभावात् । विधमानतेज्ज्ञानप्रत्यक्षसाधयादितरतरप्रामाण्यपरिकल्पनम् अनुमानप्रामाण्यमपि परिपुष्णाति विशेषाभावात् । अब प्रत्यक्षमविचारितप्रामाण्यमेव परिगृह्यते, अन्यथा व्यवहारविलोपात् ; किमिदानीमनुमानेन भवतोऽपराद्धम् यतस्तदपि तथाविधमेव न
परिगृत ? किं तेन परिगृहीतेनापि परमार्थपरिज्ञानम्य तादृशादनुपपत्तरिति चेत् ; प्रत्यक्षेणापि किं १० ततोऽपि तदनुषपत्तेरविशेषात् ? तम्मादनुपपन्नमेव प्रत्यक्षस्य विधान प्रतिषेधश्चानुमानस्य । तदाह
सदत्यये तनोति विस्तारयति प्रामाण्यमिति तत् प्रामाण्यहेतुर्विशेष: तस्य अत्ययः तस्मिन् कचित् पृथिव्यादौ यत् एकस्य प्रत्यक्षप्रामाभ्यस्य विधानम् यश्च कचित् परलोकादावेकस्यानुमानप्रामाण्यम्य प्रतिषेधः तयोः विरोधात् इति ।
__मा भूप्रत्यक्षमपि प्रमाणम् , उपप्लवस्यैव सर्वत्रोपगमादिति चत् ; म ; तहादस्य प्रतिक्षिप्त५५ स्यात् । ततः प्रत्यक्ष प्रमाणयता प्रमाणयितव्यमनुमानमपि, तदव्यभिचारिलिङ्गप्रभवत्वस्योत्तरत्र समर्थनादित्युपपन्नमिवम् स्वार्थपरिच्छेदमामानुसार प्रमाण वान प्रगशवदिति :
प्रत्यक्षस्यापि न वस्तुतः स्वार्थपरिच्छेदः तत्काले तदर्थस्य कारणत्वेन व्यतिक्रमात् , अपि तु तवाकारस्यरूपपरिच्छेदस्य तत्रारोपादौपचारिक एब, तथानुमानस्यापि तत्परिच्छेदसाधने सिद्धसाधनमिति चेत् । अत्राह
प्रत्यक्ष परमात्मानमपि च प्रतिभासयेत् ।
सत्यं परिस्फुटं येन तथा प्रामाण्यमभुते ॥ २॥ इति । तात्पर्यमत्र कीदृशं तन्प्रत्यक्षं यदाकारपरिच्छेदस्तद्विषये समारोप्यते । निर्विकल्पं निरंशपरमाणुविषयमिति चेत् ; न ; तम्य क्वचिदप्यपरिज्ञानात . संहृतविकरुषकालेऽपि नानाभागसाधारणम्य
नीलादिवेदनस्यैवानुभवात् , अन्यथा तत्कल्पनायां न क्वचिद्वस्तुनि न्यवस्था स्यात् । परिज्ञाने ऽपि तस्य २५ यदि विषयादुत्पत्तेः प्रामाण्यं चक्षुरादावपि स्यात् । उत्पत्तिविशेषात् सारूप्यलक्षणादिति चेत् ; न;
तथाऽप्यकिश्चित्करादौ प्रसङ्गात् । अकिञ्चित्करं हि विषदर्शनमज्ञस्य संशयादीनामन्यतमस्यापि तेनाकरणात् , तस्यापि विषयसारूप्यात् प्रामाण्ये ततोऽपि नः प्रवृत्तिः स्यात् । तथा च
वस्तुशक्त्यवबोधस्य दर्शनादेव सम्भवात् । वैद्यकाद्युपदेशोऽयं तदर्थो व्यर्थता ब्रजेत् ॥ १२१३ ॥
--.-.. १-तज्ज्ञानात्य-आ०, २०, ५०। २ तत्वापालव यादो प्राह । ३त तमि-आ०, २०, ५०० ४ संवृतचि-आ०, ५०, ५०। ५ निर्विकलस्य ।