________________
२१]
२ अनुमानप्रस्तावः
चारस्य दुरबोधत्वात् । तन्नाव्यभिचारि किञ्चिल्लिङ्गमिति कथं तत्प्रभक्त्वेन प्रामाण्यमनुमानस्येति
:
;
तेपामपि तदप्रामाण्ये कुतश्चैतन्य भूतोपादनत्व परलोक निषेधादेः प्रतिपत्तिः ? प्रत्यक्षादिति चेत्; किमर्थमिदानीं शास्त्रम् विप्रतिपत्तौ तन्निवर्तनार्थमिति चेत्; न; प्रत्यक्षविषये तस्या एवानावात् वृषिस्यदित स्वरुवस्या निवर्तकम् अप्रमाणकत्वात् । निवर्तकस्य प्रमाणस्योपदर्शनादिति चेत् न प्रत्यक्षस्यातन्निवर्तत्वात् । अनुमानस्येति चेत्; किं तदनुमानम् ? भूतो- ५ पादानं चैतन्यं तद्विकारे विकारित्वात् यत् यद्विकारे विकारि तत्तदुपादानं दृष्टम् यथा मृद्विकारविकारिशिवकादि मृदुपादानम् भूतविकारविकारि व चैतन्यम् तस्मात्तदुपादानमिति । तथा न तेन परलोक भूतोपादानत्वात शरीरवंद्रिति । इति चेत् कथं पुनः सामान्येनानुमानस्य निषेधे तद्विशेषयोरन्योरपि सम्भवो विशेषस्य सामान्याभावेन विरुद्धत्वात् । एतदेवाह - सदस्यये । कचित् चैतन्ये । यत् एकस्थ भूतोपादानत्वस्य विधानम् तत्परमनुमानं यश्चैकस्य परलोकित्वस्य प्रतिषेधः तत्परमनुमानं तयो- १० विरोधादिति । अथेष्यत एव हीरामनुमानं परलोकाद्यनुमानस्यैव परपरिकल्पितस्य निषेधादिति चेत्, कुतस्तस्यैव निषेध: : तत्साधनस्यैवाव्यभिचारनिर्णयाभावेनाभावादिति चेत् न ; तदभावस्यान्यत्राव्यविशेषात् । नचाविशेषे कस्यचिदिच्छ्या विधानं प्रतिषेधश्च परस्योपपन्नः । तदाह- तदत्यये । तस्य साधनस्यान्यये कचित् । इष्टसाध्ये यत् एकस्य अनुमानस्य विधानम् इच्छया यश्चापरस्य प्रतिषेधः तयोः विरोधात् । भवतु तर्हि परमसिद्धादेवानुमानादभिमतसिद्धिरिति चेत् कः १५ पुनः परो नाम ? काय एवं देवदत्तादेरिति चेत् न तस्याचेतनत्वेनानुमानस्य तप्रसिद्धत्वायोगात् । तद्गतो बुद्धिचिर्त इति चेत् तस्यापि न प्रत्यक्षात्प्रतिपत्तिः संशयाभावप्रसङ्गात् । न हि तत्प्रतिपन्नं संशयो रूपादिवत् । अस्ति च 'साधुरयं धूर्तो वा पण्डितोऽयं मूर्खो या' इति । नापि व्यापारादिलिङ्गजादनुमानात् तस्यापि स्वयमसिद्ध: । ततोऽपि परप्रसिद्धादेव तत्प्रतिपत्तिरिति चेत् कः पुनरत्र परो यस्यातः प्रतिपत्तिः स एवेति चेत् न तस्याप्रतिपत्तावस्यैवाभावात् । प्रतिपत्ती भावश्चेत्; न; २० परस्पराश्रयात् भावान्प्रतिपत्तिः ततश्च भाव इति । तदन्य एव परः, तत्प्रसिद्धादनुमानात् प्रकृतस्य प्रतिपत्तिरिति चेत् तस्यापि न प्रत्यक्षात्प्रतिपत्तिरुक्तदोषान् । नापि व्यापारादिलिङ्गजादनुमानात ; तस्यापि स्वयमप्रसिद्धेः । परप्रसिद्धादेव ततोऽपि तस्य प्रतिपत्तिरिति चेत न अत्रापि कः पुनः इत्यादेः प्रसङ्गाद्रयबस्थावैधुर्याच्च । तन्न परप्रसिद्धादपि ततः परेषामभिमतनिप्पत्तिः । कथञ्चैवं प्रयक्षस्यापि प्रामाण्यम् : विषयपरिच्छेदादिति चेत् न तस्था ऽसत्यपि विषये भावात् । अव्यभिचारादिति चेत् : २५ स एवं तंत्र कुतः प्रामाण्यात् । तदपि अव्यभिचारादिति चेत्; न; परस्पराश्रयस्य स्पष्टत्वात् । अन्यतस्तस्याव्यभिचारः प्रतीयते ततश्च प्रामाण्यमिति चेत् किं तदन्यत् ? प्रत्यक्ष मिति चेत्; न; तद्व्यभिचारस्यापि तदन्यतः प्रतिपत्तावन्यवस्थापत्तेः । अर्थकियाज्ञानमिति चेत्; न; अविशेषात् ।
i
?
: ;
i
:.
+
I
I
१ अनुमानाप्रामाण्ये २ यास्त्रम् । ३ 'चार्वाकमवापेक्षया ता०वि० ४ चैतन्यम् । ५-दिति नेत् आ०, ब०, प० । ६ तद्विषयोः आ०, ब०, प० ७ "रूपादौ संशयो नास्ति यथा सुप इवेति सूत्रेण सप्तम्यन्तात् प्रत्ययः । - ता० दिर ८ "स्वस्थ चार्वाकस्प" ता० दि० ।
-प्रस्थात मर्याच्च
००, प० ।