________________
न्यायनिश्चयविवरण
[२२१ सुभाषितमेतत्
"ग्रामाण्यं प्रस्तुविपयस्तयोर्थभिदा जगौ ।
प्रतिभागत्य भन्नावादन मिस्तगोपालः ।।" [ ] इति ।
मा भूदनुमानमपि हिरूपमिति चेत् ; किंमिदानीं तदेव नास्ति, सहकरूपं वेति ! न तावदेक ५ रूपम् ; ग्राह्याकारमात्रेणावस्तुत्वात् , स्वालमण्यमात्रंण प्रत्यक्षस्यात् । तदेव नास्तीति चेत् : फिमिदानी तत्प्रमाणम् यतः किमपि स्वाभिम सिध्येत् । प्रत्यक्षमेव, तत एवाभिमतस्याद्वैतात्मनः स्वरूपस्य सिद्धरिति चेत् : कुतस्तम्य वस्तुसत्त्वम् ? प्रतिभासादिति चेत् ; न ; तस्य बहिर्भाक्सन्तानभेदादाववस्तुसत्यपि भावात् । विचारसहात प्रतिभासादिति चेत ; यदि नामार्य तथा.ऽपि तम्मात् कुतो वस्तुसत्त्वस्यावगतिः ? अविनाभावादिति चेत् : आगतमनुमानम्-अबिनामाविनो धर्मान् धर्मान्तरावगमस्यैवानुमानत्वेन १० तद्वान्दिनामिष्टत्वात् । यस्तुसतोऽपि ततः कस्मात् स्वरूपस्यैवाद्वैतात्मनः परिज्ञानं न पुनर्बहिर्भावादेः
भेदस्यापि ! तस्य तत्रानुपलम्भादिति चेत् ; अस्तु नामानुपलम्भः तथापि कस्मादसौं तत्परिज्ञाननिषेधमववोधयति । अविनाभावादिति चेत् : उक्तमुत्तरम्--'आगतम्' इत्यादि । तन्नानुमानमन्तरेण क्वचित्कस्यचिद्विघानं प्रतिषेधो वा सम्भवति, तत एवाह-सदत्ययं । तस्यानुमानस्य अत्यये अभावे कचित् प्रत्यक्षे
एकस्य वस्तुसत्त्वस्य यविधानं यश्च प्रतिषेधो बहिर्भावादिपरिज्ञानस्य तयोः विरोधात् १५ अनुपपत्तेः । साधनात्साध्यविज्ञानमनुमानमिति सम्बन्धः । तन्न तदेव नास्ति । सतोऽपि नैकरूपत्वम् ; द्वैरूप्ये ऽपि न प्रत्यक्षाद्भिनविपयत्वमित्युपपन्नमेतत् विषयपरिच्छेदरूपमनुमानं प्रमाणत्वादिति ।
__ बार्हस्पत्यास्तु प्राहुः-सतोऽप्यनुमानस्य कथं प्रामाण्यम् ! अव्यभिचारिलिङ्गममवत्वाविति चेत् : तदेव कुनः ? प्रामाण्यादिति चेत् ; न ; परस्पराश्रयात्-तत्प्रभवत्वात्प्रामाण्यं ततश्च तत्प्रभवत्वमिति ।
अन्यत एव तस्य तत्प्रभवत्यमवगम्यते ततश्च प्रामाण्यमिति चेत् ; अन्यस्य प्रत्यक्षत्वे व्यर्थं तत्प्रामाण्य२० परिकल्पनम् , तत एव साध्यस्यापि परिज्ञानात् अन्यथा तदव्यभिचारिलिङ्गप्रभवत्वस्य ततोऽनवगमात् ।
अनुमानत्वे तु कथं तस्यापि प्रामाण्यम् ? अव्यभिचारिलिङ्गप्रभवत्वादिति चेत् ; न ; तत्रापि तदेव कुतः' इत्यादेः प्रसादनकस्थानदौस्थ्योपनिपातात् । कचेदमव्यभिचारित्वं लिङ्गस्य प्रतिपक्तव्यम् ? दृष्टान्त इति चेत् ; न ; सन्न तद्गतस्यैव तस्य प्रतिपत्तेर्नान्यस्य । तस्य तत्प्रतिपत्तिरेवान्यस्यापि तत्प्रतिपत्तिः
समानचादिति चेत् ; तहिं धूमादेरिव तत्पुत्रत्वादेरपि तथा तत्प्रतिपत्तेः श्यामत्वादी सोऽपि गमक एव २५ भवेत् । भक्त्येव यस्तत्समानः तस्याव्यभिचारात् , यस्तु गौरवादावपि दृश्यते स विलक्षण एवेति चेत् ;
न कश्चिदिवानी व्यभिचारी हेतुः सर्वस्यैव गमकत्वात् । सल्यमिदम् , तदपेक्ष या यस्य लक्षण्यपरिज्ञानं तद्रिकलपतिपत्रपेक्षयैव व्यभिचारस्य परिकल्पनादिति चेत् : नेदानीकान्ततः कचिद्व्यभिचार इति कथं तेन परस्यैकान्तिकः पराजयः स्यात् । तन्न दृष्टान्ते तत्प्रतिपत्तिः । नापि सर्वत्र ; तद्वतः सर्वज्ञत्वप्रसङ्गात् । न पक्षेऽपि ; तत्र साध्यस्य प्रतिपतौ तत्प्रतिपत्तिवैफल्यात , तस्यास्तदर्थत्वात् । अप्रतिपत्तौ तदव्यभि
..
-
.
--.
-...-.--.
-
-
५ नास्ति तदे-आ०, ब, प०। २ क्वचिदन्य-आ.प० । ३ अन्यभिचारित्वस्य । ५-देरिति त-पा०. ब०, प०५ ५ अन्धभिचारिखप्रतिपत्ते।। ६ गोचरत्वादावपि भा०, ब, प० ।
तत् सर्वज्ञत्वेऽपि तप-भात, ब०, ५०।