SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ ३१३०] ३ प्रषचनप्रस्ताषः स्वनिर्णयावेदोऽपीति मुक्तं तत्साध्यतया निर्णयस्य तत्फलत्वम्। कथं पुनः सहमाविन: प्रमाणानिर्णय इति चत् ? प्रदापात्तमोऽमहारः कथम् ? सत्येव स्मिस्तद्भावादिति चेत् ; समानमन्यत्रापि । न *'सत्सहभावनियमः, प्रमाणस्य प्रागपि भावात् । तदन्यदेवेति चेत् ; न; अभेदस्यापि प्रत्यभिज्ञानात् । आत्मन्येव तत्प्रत्यभिज्ञानं न प्रमाणे इति चेत् । न ; प्रमाणादन्यस्य तस्य प्रतिक्षेपात् । तहि निर्णयः फलं कथं तेन प्रमाणस्य ध्यपदेश: "प्रमाणं स्वतो । निर्ममः" [ सिद्धिवि० परि० १ श्लो०२] इत्यादौ तनिष्पादनरूपेणव सद्व्यपदेशोपपत्तेरिति चेत् ; सत्यम् ; शक्तिभेदेनैव क्षयोपशमापरनाम्ना प्रमाण भावस्याभ्यनुज्ञानात् । निर्णयन तु तद्भावकथन तेनैवाव्यतिरेकेणाफलेन तद्भावो न निर्विकल्पनाधिगमेनेति ज्ञापनार्थम् । तेनापि तदवस्थितावतिप्रसङगः अकिञ्चिरकरादावपि दर्शने तत्प्रसद्धगात् । तथा च ध्यर्थमव्युत्पत्त्यादिव्यवच्छेदाय तत्र ज्ञानान्तरपरिकल्पनम् । अधिगमादपि तद्वयवच्छेद रूपादेव ।। सधवस्थितिश्च त्; सिद्धस्तहि निर्णयादेवासी, तादृगधिगमस्यंब निर्णयत्वात् । कथं पुनरेकस्येव ज्ञानस्य प्रमाणफलभावेन भेद: ? सर्वस्यापि वरतुनः स्वस्वभावव्यवस्थित्या निरंशस्यैवोपपत्तेः । सारूप्याधिगमे भेदेन वचित्तद्भावकलपनं तु व्यावृत्तिभेदादेव न तश्वत इति 'चेत् ; न; तद्भेदस्यापि क्वचित्तत्त्वतोभावेऽनेकान्तवादप्रत्युज्जी बनात् । तस्याप्यन्यतस्तद्भेदात् परिकल्पनायामनवस्थाप्रसङ्गात् । ततो दूरं गत्वापि तत्वत एव १५ व्यावृत्तिभेदमभ्युपगम्छता क्वचित्प्रमाणफलभाव तद्भदोऽभ्युपगन्तव्यः प्रतीतिवलस्याविशे गान् । वस्तुतो निर्भेदमेव ज्ञानं स्वतोऽवभासते, नाह्यादिभेदस्तु तत्र विप्लवकृत इति चेत; न; विप्लवस्यापि विप्लबान्तराद्भेदप्रतिभासित्वेऽनवस्थादोषस्य दुरिहरत्वात् । स्वतस्तत् प्रतिभासित्वे 'तुन निर्भागशान प्रतिष्ठा निष्ठितिः। अतो निराकृतमेतत्-'अविभागोऽपि मुरापात्मा" [प्र. वा० २।३५४ ] इत्यादि । तन्न अनेकान्तप्रवपे सौत्रान्तिकादेः कल्पनयापि २० प्रमाणफलव्यवस्थापनमुपपन्नम् । भवतु हि प्रमाणादिसकन्न विकल्पापरामृष्टमेव तत्त्वमिति घेत; न; तस्य प्रपञ्चतः प्रतिक्षिप्तत्वात् । ततः स्थितं तस्वनिर्णयः साक्षात्, आदानादिविस्तु पारम्पर्येण फलं प्रमाणस्येति । परमपि तत्फलं दर्शयन्नाह निःश्रेयस परं प्रायः [केवलस्याप्युपेक्षणम् ||६०॥ इति । २५ निःश्रेयसं कैवल्म परं प्रकृष्ट पश्चिम वा प्रमाणस्य फलमिति सम्बन्धः । सति हि प्रमाणतः तत्त्वनिर्णये मिथ्यादर्शनादिपरित्यागेन सम्यग्दर्शना द्यभ्यासलः प्रादुर्भवग्नि:श्रेयसं परम्परया प्रमाणस्य फलमिति मन्यले, प्रायो बाहुल्येन तत्फलं सर्वत्राभावात् । सम्प्रति केवलज्ञानस्य फलं दर्शयति-केबलस्याप्युपेक्षणम् इति । सकलद्रव्यपर्यायगोचर निरतिशयं ज्ञानं केवलं तस्य उपेक्षणं सर्वत्रौदासीन्यं फलं तदपोहादिकफलान्तरस्या- १० भावात् । अपिशब्दात् सर्वविषयो निर्णयश्च "अज्ञाननाशो वा सर्वस्यास्य स्वगोचरे" [आप्तमी० श्लोक १०२] इति वचनात्, अज्ञाननाशस्य निर्णयरूपत्वात् । "सत्यं प्रमाणस्य निर्णीति: फलं सा तु तस्कार्यत्वेन ततो भिग्नव नानन्तरम् १ तत्साहायनि- भा०, ५०, ५०। २-माणामाव- मा०, ०, प० । ३तनायो निर्विमा०,०प०।४सात-सा०। ५-फखतभेदो- सा०।६तु निर्भाग-आ. ५०, प० । ७-प्रतिमिहिका मा०1-निजत०।८-नाम्यासवः मा०,०, ०। ९ तबम्युमादिकफता.। १० स्वत्वं ममा-पा०,०प० ।
SR No.090313
Book TitleNyayavinishchay Vivaranam Part 2
Original Sutra AuthorVadirajsuri
AuthorMahendramuni
PublisherBharatiya Gyanpith
Publication Year2000
Total Pages521
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy