________________
३८७-८८]
३ प्रवचनप्रस्तावः
सर्वमेतच्छ्रुतज्ञानम् [अनुमानं तथागमः ] । इति ।
सर्व निरवशेषम् एतत् प्रकृतं स्मरणप्रत्यवमर्शतर्क लक्षणं श्रुतज्ञानं परोक्षप्रमाणम् अस्पष्ट्घात् । इदमेवमिति ज्ञानं स्पष्टमेव सन्निहितविषयत्वादिति चेत् न तस्यापि 'साकेतिताभिलापयोजनाया स्पष्टत्वात् । कथं तर्हि तच्छ्रुतमेव स्पष्टशिस्यापि भावात् ? न चेदं ज्ञानद्वयमेव एकस्यैव विकल्पेतरतयेव स्पष्टेसरस्यापि प्रत्यवभासनात्, अन्यथा सन्तानान्तरर्वदप्रतिसन्धानप्रसङ्गादिति चेत् सत्यमिदं श्रुतत्वकथनं तु तत्र साभिलाव - विषयप्रतिपत्त तदंशस्यैव प्राधान्यात् । ततो युक्तं स्मरणादेः 'परोक्षत्वम् ।
५
३६३
अर्थापत्तिस्तर्हि प्रमाणान्तरमिति चेत्; न; तस्या अनुमानत्वात् व्याप्तिसामर्थ्या दुत्पत्तेः । बहिर्व्याप्तिरभावादर्थापत्तिरिति चेत्; नः अनुमानस्याप्यन्तर्व्याप्तिरेव गमकत्वस्थ निरूपणात् । एतावता च भेदे पक्षधर्मवत्यास्ततस्तद्विकला किन्न प्रमाणान्तरम् ? अन्यथानुपपत्तेरविशेषादिति चेत्; अत एवानुमानादपि न भवेत् ।
अभावज्ञानं तु भूतलादौ केवल्यमात्रे प्रत्यक्षम् निषेध्यविशेषशेषहिते प्रत्यभिज्ञानम्, अविनाभावापेक्षायामनुमानम्, वचनमूलत्वे चाग्रम इति न प्रमाणान्तरम् । अनुमानागमयोश्चास्पष्टप्रतिभासत्वान्न परोक्षाद्भेदः । तदाह- 'अनुमानं तथागमः' इति । न केवलं स्मृत्यादिकमेव श्रुतज्ञानम् अपि त्वनुमानं तद्वदागमश्चेति ।
कथं पुनरागमः प्रमाणमिति चेत् ? आह
१०
१५
सम्प्रदायाविघातेन यदि तवं प्रतीयते ॥ ८७ ॥ इति ।
सर्वज्ञोपदेश मूलमुपदेशपारम्पर्य सम्प्रदायः तस्या विधातोऽविच्छेद स्तेन तत्त्वम्
आगमवाच्यं यदि प्रतीयते प्रमाणमागमो नान्यथा । तथा च तत्प्रतिपत्तिर्भगवत्प्रवचनादेव, शक्यपरिच्छेदे वस्तुनि प्रत्यक्षादिना संवादस्यान्यत्र विसंवादानवभासस्य च शास्त्रलक्षणस्य २० तत्रैव प्रतिपत्तेः प्रत्यागमेषु च विपर्ययात् । ततः स्थितं प्रत्यक्ष परोक्षं चेति द्वे एव प्रमाणे इति । किं पुनः प्रत्यक्षं किं वा परोक्षमित्यत्राह -
I
मा परोक्षमपरं प्रत्यक्षं प्राहुराञ्जसम् । इति ।
१
शामिला प्रा०, ब०, प० । २क्षापिवि- आ०, ४०, प०३ -मप-प्रा० ब०, प० । ४ - णस्य च - झा, ब०, प० ५ - नस्यैवावन- श्रा०, ६०, प० ।
"मतिश्रुतावधिमनः पर्यय केवलानि ज्ञानम् ।" [त० सू० १९] इत्यत्र पाठापेक्षयाऽऽदौ भवत्वात् आधे मतिश्रुते ते प्राहुः प्रतिपादयन्ति सूत्रकारादयः । किम् ? परोक्षं प्रमाणम् । २५ परोक्षत्वञ्च तयोरिन्द्रियसत्रिकर्षलिङ्गादिभिरुत्पाद्यमानत्वात् 'पररुक्ष्यते सिध्यते इति परोक्षम्' इति व्युत्पत्तेः । अपरं ताभ्यामुत्तरम् अवधिमनः पर्ययकेचलभेदं ज्ञानं प्रत्यक्षं प्राहुः । प्रत्यक्षत्वमात्ममात्रापेक्षत्वात् अक्षमात्मानं प्रति गतं कारणत्वेनाश्रितं प्रत्यक्षम्' इति व्युत्पत्तेः । न च मतिज्ञानादेरपि प्रत्यक्षत्वम् आत्ममात्रापेक्षस्यैव तत्त्वोपगमात् मत्यादौ च तदभावात् । तदिदमुभयमपि प्रमाणम् आञ्जसं न व्यवहारमात्र परिकल्पितम् ३० परमार्थतः प्रमाणस्याभावे कल्पनयापि तदसम्भवस्य निरूपितत्वात् । कथं तहि मतिज्ञान. "स्यैवमवग्रहादिभेदस्य प्रत्यक्षत्वमुक्तम् । आत्ममात्रापेक्षत्वाभावादिति चेत् ? अत्राहकेवल लोकशुद्ध व मतेर्लक्षण संग्रहः ||८८ || इति ।