________________
३५८
न्यायविनिश्चयविवरणे
तत्राभाव इति न पुनरुच्यते । तत्सरिक्षयनिबन्धनत्वादेव तस्य करणमव्यवधानातिवर्तिन केवलरवमपि प्रत्येयम्, तदनतिवर्तिनि तत्परिक्षयस्यास्मदादिवदसम्भवात् । अत इदमुक्तम्अज्ञानपेक्षणात् इति। अक्षाणामिन्द्रियागाम् । उपलक्षणमिदम् तेन देशकालपरिपाटी लक्षणस्य क्रमस्य देशकालस्वभावतिरोधानलक्षणस्य व्यवधानस्य चानपेक्षणादिति प्रत्येयम् । तेषा५ मनपेक्षणं च तदतिक्रमेण प्रवृत्तिरेव । अक्षापेक्षमेव साक्षात्करणमस्मदादी प्रतिपन्नम्, तत्कथं तदनपेक्षायामिति चेत् ? न अस्मदादावपि मलविश्लेषविशेषादेव सत्यस्वप्नादी तत्प्रतिपत्तेः । यद्येवं जाप्रतोऽपि किं तत्रापेक्षयेति चेत् ? तत्रैव गोलकादिरूपे साक्षात्क्रियातोलापगमविशेषस्य भावात् न पुनः तस्यैव तद्धेतुत्वात् । उक्तं चैतत् -""कर्याश्चत्स्वप्रदेशेषु " इत्यादिना । तत्र तचेतुत्वव्यवहारश्चोपचारात् । ततो युक्तं भगवतस्तदनपेक्ष मेव तदर्थ साक्षा१० करणम्, ततश्च प्रवचनबलात् तदर्थवेदिनो गणधर देवादेश्च विशेष इति ।
1
२०
कलावर परिक्षाविर्भूतमपि कथं तदशेषविषयमिति चेत् ? अत्राहarrrrrr विच्छेदे ज्ञेयं किमवशिष्यते । इति ।
We areस्वपरविषयपरिज्ञानस्वभावस्य अन्यथा व्याप्तिज्ञानासम्भवेनानुमानाभावप्रसङ्गात् साक्षाद्वेद्यं किं नाम अवशिष्यते न किञ्चित् सर्वमपि तस्य साक्षात्कर्तव्य१५ मेव । न चैवमतिप्रसङ्गः, सकल बांधावरण विलय एवं तदनवशे पत्नसम्भवात् । अत एवोक्तम् आवरमविषये इति । यद्येवमशुचिरसादेरपि साक्षात्करणात् तस्य तद्भक्षणादिदोषः स्यादिति चेत् सत्यम्, यदीन्द्रियप्राप्तस्य साक्षात्करणम्, न चैवम्, भगवतोऽक्षानपेक्षदर्शनत्वात् । तदाह्
२५
[३।७६८१
अवाप्यकारिणः [तस्मात् सर्वार्थानवलोकते ] |||७६ || इति ।
इन्द्रियेण विषयमा करोति निश्चिनोतीत्येवं सीलस्येत्यर्थः । सम्प्रत्युपसंहरतितस्मात् सर्वार्थानवलोकते । इति । I
सुबोधमेतत् । 'सर्वावलोकनमेव दर्शयन्नाह
शास्त्रे दुरवगाहार्थतत्त्वं दृष्टं हि केवलम् । ज्योतिर्ज्ञानादिवत्सर्वं स्वत एवं प्रणेतृभिः ||८०|| इति ।
शास्त्रे प्रवचने यदभिधेयत्वेनावस्थितं प्राकृतप्रज्ञे दुरवबोधत्वाद् दुरवगाहमर्थानां सूक्ष्मान्तरितदूराणां तस्वम् आत्मीयं रूपं तत्सर्वं निरवशेषं दृष्टं हि दृष्टमेव । हिरवधारणे । कैः ? प्रणेतुभिः correत्रकारः । कथं प्रणेतृभिः ? केवलम् उपदेशाद्यनपेक्षं ज्योतिर्ज्ञानं ज्योतिःशास्त्रम् आदिशवादायुर्वेदादि तमेव तद्वत् । यथा ज्योतिःशास्त्रादौ ततत्वं दृष्टं तैः तद्दर्शनस्य समर्थितत्वात् तदन्यदपि सर्वं ततैर्दृष्टमेव अन्यया तद्विषयानुपदेशालिङ्गा३० नन्वयव्यतिरेकाविसंवादिशास्त्रप्रणयनानुपपत्तेः ।
अनुपदेशादयः प्रणपनविशेषणत्वेन संहता" एत्र कस्माद्धेतवः न प्रत्येकमपि ? इति चेत्; अत्राह
संघातो हेतुरेतेषां पृथगन्यत्र सम्भवात् । इति ।
१ विमल आ०, ब०, प० २ ज्याविभा० २ ० २२२ । ३ - नान नर मुख्यध्यत्र - प्रा०, ब०, प० । ४ सर्वार्थानवत्र- चा प०५ - एकमा
० ० ० ॥